________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.3. प्रत्यक्षमिति / प्रतिगतमाश्रितम् अक्षम् / “अत्यादयः कान्ताद्यर्थे द्वितीयया" [वा० 2. 2 18.] इति समासः / प्राप्तापन्नालङ्गति समासेषु परवल्लिङ्गप्रतिषेधाव अभिधेयवल्लिने सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः। अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य। न तु प्रवृत्तिनिमित्तम् / अनेन त्वक्षाश्रितत्वेनका'र्थसमवेत मर्थसाक्षाकारित्वं लक्ष्यते। तदेव शब्दस्य प्रवृत्तिनिमित्तम् / ततश्च यत्किञ्चिदर्थस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षमुच्यते / विशेषतः। अभिमतमाह-प्रत्यक्षम् इति / प्रत्यक्षमित्यत्र कः समासः, केन च सूत्रेणेत्याशङक्यः सुखप्रतिपत्त्यर्थं विप्रतिपत्तिनिराकरणार्थं चाह प्रतिगतम् इत्यादि। अक्षमिन्द्रियं गतमाश्रितं जन्यतया, न त्वाधेयभावेन / एवं च विगृह्णन् अक्षमक्षं प्रति वर्तत इति व्युत्पत्तिप्रकारेणाव्ययीभावं निरस्यति / समास एकार्थीभावः। स चायं समासस्तत्पुरुषसंज्ञको ज्ञातव्यः / केन सूत्रेणायमित्याह-अत्यादय इति। आहोपुरुषिकयाऽयं प्रकारस्त्वया दर्शितो न त्वस्य कश्चिद् गुणोऽस्तीत्याह-सर्वलिङ्ग इति / अव्ययीभावपक्षे प्रत्यक्षो वृक्षः प्रत्यक्षा मृगाश्चेति न स्यात् / प्रत्यक्षस्यति श्रुतिश्च न स्यादित्यभिप्रायः / कथं पूनः सर्वलिङ्गताऽस्येत्याह-अभिधेयवदिति / अभिधेयस्येवाभिधेयवत् / अभिधेयवल्लिङ्गं यस्य तत्तथा तस्मिश्च सत्ययं प्रत्यक्षशब्द: सर्वलिङ्गः। ननु च "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः" [पाणिनि-२.४.२६] इति समस्तेन प्रत्यक्षशब्देन प्रतिशब्दो (ब्दा)पेक्षया परस्थानस्थितस्याक्षशब्दस्य लिङ्गपरिग्रहात्कथमस्याभिधेयवल्लिङ्गतेत्याह-प्राप्तेति / ... ननु केनास्य परवल्लिङ्गनिषेधः ? न तावत् प्राप्तापन्नालङ्गतिसमासेन तेषां स्वरूपग्रहणात्तत्र / अत्र च तदभावात् / गतिसमासादिति चेत् / तदप्यसत्, “उपसर्गाः क्रियायोगे" [पाणिनि-१.४.५९] इत्यतः क्रियायोगे वर्तमाने "गतिश्च" [पाणिनि-१.४.६० इत्यनेन क्रियायोग एव गतिसंज्ञाविधानात् / न चायं प्रतिशब्द: क्रियायोगी। न च गमनक्रियायोगोऽत्रास्तीति वाच्यम् / प्रतिशब्दस्यैव तत्रार्थे वर्तमाना( नत्वा )त् नायं दोषः, गतिग्रहणेन तत्र येषां गतिसंज्ञा दृष्टा तेषां ग्रहणात् / प्रत्यादीनां सा दष्टेति तेषामपि तथात्वेन सङग्रह इति / यद्येवं समासस्तहि कथमाचार्यदिग्नागेन "अक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्" [प्रमाणसमु० ?] इत्युक्तम् ? तदर्थमात्रं कथितमित्यदोषः। 1 उपसर्ग-टि० 2 ननु चास्यां व्युत्पत्तौ इन्द्रियज्ञानस्यैव प्रत्यक्षशब्दवाच्यता स्याद् न योगिज्ञानादेरि त्याह-टि० / इन्द्रियज्ञानेऽशाश्रितत्वमर्थसाक्षात्कारित्वं च समवेतम्-टि० 4 अनेन त्वलक्षाश्रि. A 5 एकस्मिन्निन्द्रियज्ञाने-टि० 6 एकार्थसम्बद्धम्-टि. 7 लभ्यते-B N