________________ .1.3. ] प्रत्यक्षशब्दव्युत्पत्तिः। यदि त्वक्षाश्रितत्वमेव : प्रवृत्तिनिमित्तं स्याद् इन्द्रियविज्ञानमेव प्रत्यक्षमुच्येत, न मानसादि। यथा 'गच्छतीति गौः' इति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं२ प्रवृत्तिनिमित्तीकरोति / तथा च गच्छत्यगच्छति च गति गोशब्दः सिद्धो भवति / मीयतेऽनेनेति मानम् / करणसाधनेन मानशब्देन सारूप्यलक्षणं प्रमाणमभिधीयते / लिङ्ग-ग्रहण-सम्बन्धस्मरणस्य पश्चात् मानम् अनुमानम् / गृहीते पक्षधर्मे स्मृते च अथ प्रतिगतमाश्रितमक्षमित्यस्यामपि व्युत्पत्ती मानस-स्वसंवेदन-योगिप्रत्यक्षाणां न स्यात्प्रत्यक्षशब्दवाच्यतेत्याह- अक्षाश्रितत्वम् इति / चो यस्मात् / प्रकृत्यादिविभागेन शब्दस्य निष्पत्तिय॑त्पत्तिः। प्रवत्तिरर्थाभिधानम शब्दस्येति प्रकृतस्य प्रत्यक्षशब्दस्य। तुरवधारणे। किं तर्हि प्रवृत्तिनिमित्तमित्याह-अनेन-इति / तुना व्युत्पत्तिनिमित्तादस्य भेदं द[17b]र्शयति / यत्तदोनित्यमभिसंबन्धात् यदक्षाश्रितत्वेनार्थसाक्षात्कारित्वमर्थापरोक्षीकरणमुपलक्ष्यते तदेव तु प्रत्यक्षशब्दस्य प्रवृत्तिनिमित्तम् / कथं पुनरन्येनासंबद्धनान्यस्योपलक्षणम् ? मा भूदि (द)तिप्रसक्तिरित्याह-एकार्थसमवेतम् इति हेतुभावेन विशेषणात् / यत एकार्थसमवेतं ततो लक्ष्यत इत्यर्थः / एकस्मिन्नर्थे ज्ञानलक्षणेऽर्थसाक्षात्कारित्वमक्षाश्रितत्वेन समं समवेतम् / यद्यपि परमार्थतः समायसमवायिनौ न स्तस्तथापि तद्व्यावृत्तिनिबन्धनयोस्तथाभूतवस्त्वाश्रयेण कल्पितयोरक्षाश्रितत्वार्थसाक्षात्कारित्वयोरेकार्थसमवायस्य च कल्पितस्य सम्भवादेवमभिधाने को विरोधः? परप्रसिद्ध्या वा एवमुक्तमिति का क्षतिः ? एवमपि कथं पूर्वदोषातिवृत्तिरित्याह-ततश्चेति। साक्षात्कारित्वस्य प्रवृत्तिनिमित्तत्वात्। चशब्द एव तस्मादिदमुच्यत इत्यर्थं द्योतयति। - अक्षाश्रितत्वे प्रवृत्तिनिमित्ते को दोष इति पार्श्वस्थस्याश्रुतचोदकवाक्यस्य वचनमाशङक्याह-यदि-इति / तुना भेदवदेतद्दर्शयति / - अथाभिधीयते यदर्थसाक्षात्करणमक्षाश्रितत्वेन समवेतं तदेवानेनपलक्षणीयमिति तदवस्थे (स्थो) मानसादेरसङग्रह इति। न / अक्षजत्वस्योपलक्षणत्वेनाप्राधान्यादर्थसाक्षात्कारित्वम्पलक्ष्यमाणं प्रधानमुपलक्ष्यैव निवृत्तरदोष एव / यथा काकेभ्यो दधि रक्ष्यतामित्यत्र / अन्यथाऽत्रापि काकत्वेनैकार्थसमवेतस्योपघातकत्वस्योपलक्षणात्, श्वादिभ्यो दधिरक्षा न स्यात् / अथ यदेवोपघातकं (कत्वं) काकेषु समवेतं तदेवान्यत्रापि / तच्चोपलक्षितमिति तदन्यतोऽपि दधिरक्षोच्यते / अर्थसाक्षात्कारित्वेऽपि समानमिदमिति कथं न मानसादेः प्रत्यक्षशब्दाभिलाप्यत्वमिति / किं दृष्टमिदं यदन्यत्र व्युत्पादितोऽपि शब्दोऽन्यत्र तत्प्रवृत्तिविषयीकरोतीत्याह-यथेति / सुगममेतत्, केवलमपिरवधारणे गोत्वम(मित्य)स्मात्परो द्रष्टव्यः / प्रत्यक्षमूलत्वादनुमानस्यादौ प्रत्यक्षमुपात्तं प्रत्येयम् / यत्र हि निमित्तान्तरं दर्शयितु 1 इन्द्रियज्ञान A. P. H. E. 3 सामान्यलक्षण-टि० अर्थसारूप्य०-टि० 2 जातिः-टि० 4 गृहीतपक्ष B.