________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.4. साध्यसाधनसम्बन्धेऽनुमान प्रवर्तत इति पश्चात्कालभाव्युच्यते / चकारः प्रत्यक्षानुमानयोस्तुल्यबलत्वं समुच्चिनोति / यथार्थाविनाभावित्वादर्थ प्रापयत् प्रत्यक्ष प्रमाणम्, तद्वपाविनाभाषित्वाद् अनुमानमपि परिच्छिन्नमर्थ प्रापयत् प्रमाणमिति / / तत्र प्रत्यक्षं कल्पनाऽपोढमभ्रान्तम् // 4 // तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते। ततोयं वाक्यार्थः-तत्र तयोः प्रत्यक्षानुमानयोरिति समुदायनिर्देशः। प्रत्यक्षम् इत्येकदेशनिर्देशः / तत्र समुदायात् प्रत्यक्षत्वजात्यैकदेशस्य पृथक्करणं निर्धारणम् / तत्र प्रत्यक्षमनद्य कल्पनाऽपोढत्वम्, अभ्रान्तत्वं च . विधीयते / “यत् तत् भवताम् अस्माकं चार्थेषु साक्षात्कारि ज्ञानं प्रसिद्धं तत् कल्पनाऽपोढाभ्रान्सत्वयुक्तं द्रष्टव्यम् / मशक्यं तत्र क्रमप्रवृत्तित्वाद् वाचः, क्रमस्य न्यायप्राप्तत्वादित्युच्यते, न तु सत्यपि निमित्तान्तरे यथोद्देशमेव व्याख्यानं युक्तमिति / प्रत्यक्षपदं व्याख्यायाधुनाऽनुमानपदं व्याचिख्यासुः मानशब्दस्य तावदर्थमाचष्टे मीयत इति / एवं व्युत्पादितेनानेन शब्देन किं प्रतिपाद्यत इति ?. करणेति / करणस्यानुमानलक्षणक्रियासिद्धौ साधकतमस्य साधनेन वाचकेन / सारूप्य(प्य) लक्षणं स्वभावो यस्य तत्तथा / हेतुभावेन चैतद् विशेषणम् / / यद्येवं कथं तहि क्वचित् 'त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम्" इति ? सारूप्योपलक्षितं ज्ञानमेव तथाऽभिधास्यत इति को विरोधः ? एवं तावन्मानम् / अनुमानं तु कथमित्याह–पश्चाद् इति / अनेन पश्चादर्थवृत्तेनानुशब्दस्य मानशब्देन, सह “गतिप्रादय" इत्यनेन तत्पुरुषसमासं दर्शयति / न च मानस्य पश्चादिति [18a] विवक्षितम्, येनानुरथादिवदव्ययीभावो भवेत् / अत्र हि मानमेव पक्षधर्मग्रहणादेः पश्चाद्भावि विवक्षितम् / न मानस्य पश्चाद्भावि किञ्चिदिति / अव्ययीभावपक्षे तु न केवलं विवक्षितार्थक्षतिः, किन्त्वनुमानस्यति षष्ठी च न श्रृयेत। कस्य पश्चादित्याह-लिङ्गति। “षष्ठ्यतसर्थप्रत्ययेन" [पाणिनि-२.३.३०] इत्यनेन पश्चात् शब्दयोगे षष्ठीयम् / कथमेतत् द्वयस्य पश्चाद् भाव्यनुमानमित्याह-गृहीत इति / तुल्यबलत्वं तुल्यसामर्थ्यम् / प्रामाण्यासादनायेति प्रकरणवशात् / यथेत्यादिनैतदेव समर्थयते। अनुमानस्य त्वर्थाविनाभावित्वं पारम्पर्येण द्रष्टव्यम् / न चैवं प्रापणे प्रामाण्यावहे कश्चिद् विशेषः / परिच्छिन्नमित्यध्यवसितम् / एवं ब्रुवतः प्रत्यक्षमप्यध्यवसितमेव सन्तानं प्रापयत् प्रमाणम् / इदमपि तथेति कथमस्य न तथात्वमिति भावः / तुल्यबलप्रदर्शनेऽप्यय भावः। प्रत्यक्षस्यापि यदर्थाविनाभावित्वं तत् तदुत्पत्तिनिमित्तकमेव / तच्चानुमानस्यापि समानमिति अर्थाव्यभिचारेणापि निमिसिना समानेन भाव्यमिति / 1 इत्येकदेशः A. C. P. E. H प्रत्यक्षत्वमन, B. D. P. E. H. N त्वं विधी• B. * नन प्रत्यक्षस्याद्याप्यसिद्धत्वात् कथमनूद्यत्वं सम्भवतीत्याह-टि.