________________ 1.4. ] प्रत्यक्षलक्षणम् / न' चैतन्मन्तव्यम्-कल्पनाऽपोढाऽभ्रान्तत्वं चेदप्रसिद्धम्, किमन्यत् प्रत्यक्षस्य ज्ञानस्य रूपमवशिष्यते यत् प्रत्यक्षशब्दवाच्यं सद् अनुद्यतेति / यस्मादिन्द्रियान्वयव्यतिरेकानुविधाय्यर्थेषु साक्षात्कारिज्ञानं प्रत्यक्षशब्दवाच्यं सर्वेषां प्रसिद्धम्, तदनुवादेन कल्पनाऽपोढाभ्रान्तत्वविधिः। कल्पनाया अपोढम् अपेतं कल्पनापोढम् / कल्पनास्वभावरहितमित्यर्थः। अभ्रान्त अनेन "प्रत्यक्षमेकं प्रमाणम्" इति ब्रुवाणश्चार्वाकः, "अनमानादर्थनिश्चयो दुर्लभः / कनिष्ठं च तत्प्रमाणम्” इत्याचक्षाणो मीमांसकश्च निरस्तः / सर्वत्रायम् इतिर्वाक्यार्थपरिसमाप्तौ। यत्र त्वर्थविशेषे वर्तते स कथ्यत एव / तत्रेत्यादि निर्धारणमित्यन्तं सुगमम् / केवलमिन्द्रियज्ञानादिप्रत्यक्षानुयायित्वात्प्रत्यक्षत्वाख्या जातिर्या व्यवहारसिद्धा तयेति द्रष्टव्यम। तत्रेत्ययमेवं व्यवस्थिते सतीति वाक्योपन्यासे। एवं चानुवादविधिक्रमेण यदन्यदन्येन व्याख्यातम् “प्रत्यक्षमिति संज्ञा कल्पनापोढत्वादि संख्येव। तेन संज्ञासंज्ञिसम्बन्धः प्रतिपाद्यते" इति तद् विप्रतिपत्तिनिराकरणे प्रस्तुतेऽप्रस्तुतम् / ततोऽपव्याख्यानमिति प्रकाशयति / यदप्यपरेण व्याख्यातं "प्रदेशान्तरप्रसिद्धयोः कल्पनापोढत्वाभ्रान्तत्वयोरनुवादेन प्रत्यक्षत्वं विधीयते" इति तदपि न चतुरस्रमिति प्रतिपादयति / यतः प्रसिद्ध लक्ष्यलक्षणभावे लक्षणानुवादेन लक्ष्यं विधेयम्, अप्रसिद्ध तु लक्षणवाक्येन लक्षणमेव विधेयम्, न लक्ष्यमिति न्याय इति / अनयोश्च पक्षयोर्यावान् समर्थनदूषणप्रकारस्तावाननेनैव विनिश्चयटीकायां स्वयं विवेचित इति नेहोच्यते। कथं प्रत्यक्षत्वानवादेन कल्पनापोढत्वादिविधानमित्याह-प्रसिद्धमिति / अनेन पूर्व प्रसिद्धस्य पश्चाच्छब्देनाभिधानमनुवाद इति दर्शयति / तदेवं द्रष्टव्यमिति विदधानोज्ञातस्य शब्देन ज्ञापनं विधिरिति दर्शयति / .. न चैतदित्यादीतिशब्दान्तं सुबोधम् / इन्द्रियान्वयव्यतिरेकानुविधायिग्रहणं मानसाद्यसाधारणतयाऽनुपन्यासाईमपि प्रत्यक्षशब्दप्रवृत्तिनिमित्तस्यार्थसाक्षात्कारित्वस्य यदुपलक्षकं तदुपदर्शनार्थमुपन्यस्तमिति ज्ञातव्यम् / परिपाटया प्रसिद्धत्वप्रदर्शनार्थं वा। तथा हि प्रथमं यत् तद् इन्द्रियान्वयव्यतिरेकानुविधायितया प्रत्यक्षं प्रसिद्धमिति प्रतिपद्यते। तदनु यदीदमिन्द्रियाश्रितं ज्ञानं भवतां प्रत्यक्षं प्रसिद्धं तत्रापि प्रत्यक्षश[18b]ब्दप्रवृत्तावर्थसाक्षात्कारित्वमेव निमित्तं जानीते इति प्रतिपाद्यते / तदनुवादेनेति सुगमम् / यत् कल्पनयापोढं रहितं तत् कल्पनाया अपोढमपगतं भवतीत्यर्थाभेदं मत्वा कल्पनाया अपोढमिति कर्तरि निष्ठामाह। न तु कल्पनापोढमिति कर्तरि निष्ठेव / एवं हि तया रहितमित्याचार्यविवरणविरोधः स्यात् / ननु च तयोरप्रसिद्धत्वात् प्रत्यक्षस्याप्यप्रसिद्धिरेव, प्रत्यक्षस्यैतत्स्वभावत्वादित्याह-टि. ... . ०षां सिद्ध A. C. P. H. E 3 पोढत्वाभ्रा० C. D