________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.4. मर्थक्रियाक्षमे वस्तुरूपेऽविपर्यस्तमुच्यते। अर्थक्रियाक्षमंच' वस्तुरूपं सन्निवेशोपाधिवर्णात्मकम् / तत्र यन्न भ्राम्यति तदभ्रान्तम् / ननु किमेकस्मिन् ज्ञाने ज्ञानान्तरसम्भवोऽस्ति येनायं प्रतिषेधः शोभेत ? कल्पनाज्ञानेऽपि च कल्पनान्तरं नास्तीति तदपि कल्पनापोढं प्रसज्यतेति वचनावकाशं पश्यन् कल्पनास्वभावेनेत्यादिनाऽस्य विवक्षितमर्थं स्फुटयति / . एवञ्च ब्रुवन् कल्पनाऽपोढमित्यत्राचार्यांये लक्षणवाक्ये भावप्रधानोऽयं कल्पनाशब्दः। तेन कल्पनात्वेन रहितमित्यर्थ इति दर्शयति / धर्मिणा वा कल्पनाख्येन धर्मस्याभिलापसंसर्गयोग्यप्रतिभासत्वाख्यस्य निर्देशं दर्शयति / उभयथाऽपि कल्पनास्वभावरहितमित्यर्थ इत्यस्य स्फुटी- . करणस्य घटनात् / कल्पना च वक्ष्यमाणलक्षणा ग्राह्या / एवं च शब्दार्थ स्फुटयताऽनेन यद् आचार्यदिग्नागीयप्रत्यक्षलक्षणदूषणावसरे—'कल्पना नामजात्यादियोजना। तेन यन्नाम्ना नाभिधीयते, जात्यादिना च न व्यपदिश्यते विषयभेदानुविधायि यज् ज्ञातं तत्प्रत्यक्षम्". [न्यायवा० पृ० 41] इत्यर्थं परिकल्प्य "अथ प्रत्यक्षशब्देन कोऽर्थोऽभिधीयते / यदि प्रत्यक्ष कथमवाच्यम् ? अथ न प्रत्यक्षमवाचकस्तहि प्रत्यक्षशब्दः / प्रत्यक्षत्वसामान्याभिधानेऽपि यदि तद्व्यतिरेकि; न प्रत्यक्षमुक्तम् / अथाव्यतिरेकि / कथं नोक्तम् ? कल्पनापोढशब्देनापि यदि तदुच्यते कथं न व्याघातः ? अथ नोच्यते तस्योच्चारणवैयर्थ्यम् / प्रत्यक्ष कल्पनापोढमिति च व्यपदिश्यते, न चाभिधेयमिति कोऽन्यो भदन्ताद् वक्तुमर्हति"[न्यायवा० पृ० 41] इत्यादि यदबादीदुद्योतकरस्तत्सर्वं कल्पनापोढशब्दार्थाऽपरिज्ञानविलसितं तस्य तपस्विन इति सूचितम् / "इहाविसंवादकत्वमभ्रान्तत्वमभिप्रेतम् / तेन द्विचन्द्रादिज्ञानं व्यवच्छिन्नम्, योगाचारमतमपि सगृहीतं भवती"ति पूर्वव्याख्यानमवमन्यमानोऽभ्रान्तशब्दस्यार्थमाह-अभ्रान्तम् इति / अभ्रान्तमर्थक्रियाक्षमेऽविपर्यस्तं यत् तदुच्यते / न त्वविसंवादकमिह ग्रहीतव्यमिति बुद्धिस्थं पश्चाद् व्यक्तीकर्तव्यम् / अनर्थोऽपि वस्तूतयाऽध्यवसीयत इत्यर्थक्रियाक्षम इति विशेषणम् / तॉर्थक्रियाक्षम इत्येवास्तु / न / अर्थक्रियाक्षमस्यैवं वस्तुत्वज्ञापनार्थत्वात् / किं तदर्थक्रियाक्षमम् ? किमवयवि ? अथान्यदेवेत्याह-अर्थक्रियेति / सन्निवेशश्चतुरस्रत्वादिः प्रतिभासधर्मः। स उपाधिविशेषणं यस्य वर्णस्य वस्तुशब्दवाच्यस्य शुक्लादिपरमाणुसंघातस्य तथोत्पन्नस्य स तथा। सन्निवेशविशिष्टस्यैव वर्णस्यान्वयव्यतिरेकाभ्यामर्थक्रियायामुपयोगदर्शनादेतदाह। स एवात्मा स्वभावो यस्यति तत्तथा। एतच्च चाक्षुषज्ञानविषयाभिप्रायेणोक्तं द्रष्टव्यम् / अन्यथा बह्वसमञ्जसं स्यादिति / अनेन परमाणुप्रचयमात्रस्यैवार्थक्रि[19a]याकारित्वं नावयविनस्तस्यासत्त्वादिति सूचितम् / न भ्राम्यति न विपर्यस्यति–अन्यथाग्राहि न भवति / स्यादेतत्--परमाण्वर्थ एव भवन्मते बाह्यं वस्तु / सर्वं च विज्ञानं तेषु परमसूक्ष्मेषु 1 ०क्षम वस्तु० A. P. E. २०धिधर्मात्म० P. H. 3 धर्मोत्तरे सर्वत्र प्रतिषु 'कल्पनास्वभावरहितम्' इत्येव पाठो लभ्यते न तु 'कल्पनास्वभावेन रहितम्' इति /