________________ 1.4.] . . प्रत्यक्षलक्षणम् / . 43 स्थूलाभासमाजायते / तत्कथं किञ्चिदभ्रान्तं नामेति? अत्रोच्यते। एकसामग्रीजन्मनां परमाणनां भिन्नदेशस्वभावानां तद्धत्वभावतच्छायालोकपरमाणुस्वभावेनान्तरेण रहितत्वान्निरन्तरत्वेन प्रतिभास एव देशवितानावभासात्मा स्थौल्यं नापरं किञ्चित् / तत्र तथाभूतपरमाणसमुदायनिष्ठं निर्विकल्पकं विज्ञानं कथं भ्रान्तं स्यात् ? योकैक परमाणुमनेकदेशावष्टम्भेन गृह्णीयान्न पुनरनेकमनेकदेशावष्टम्भेन गृह्णत् / इतोऽपि विपर्यस्येद यदि भिन्नदेशान् परमाणून् एकदेशान् गृह्णीयात् / न चैतदस्ति, अणुमात्रकपिण्डप्रतिभासाभावात् / एकदेशग्रहणे हि पिण्डो भासेत अणुमात्रको न तु विततदेशः / न चानेकग्रहो भ्रमः / अतस्मि स्तदिति प्रत्ययस्य तादात्म्यात् / तदयमर्थः - एकज्ञानग्राह्यास्तथाविधा बहवः परमाणवः स्थूल इति / एकोऽयं स्थूल इति तु तथाभूतप्रतिभासाश्रयेण व्यवस्थाप्यमानत्वात् प्रतिभासधर्म इत्युच्यते / न वस्तुधर्मः, प्रत्येकमपरिसमाप्तेरित्यलमिह विस्तरेण / ननु चैवमप्यन्योन्यमसंसृष्टस्वभावान् परमाणून संसृष्टान् गृह्णद्विज्ञान कथमिवाविपर्यस्तं नामेति / अत्राप्युच्यते / किमिदमसंसृष्टत्वमिष्टं भवता, यद् विपर्ययग्रहणाद् भ्रान्तं ज्ञानमुपवर्ण्यते ? किं नानारूपत्वम्, अथ नानादेशत्वम् , उत रूपेणैव विजातीयेन व्यवहितत्वम्, आहोस्विदिन्द्रियान्तरग्राह्यणार्थेन व्यवकीर्णत्वम् ? तत्र यदि नानारूपत्वमसंसृष्टत्वमिष्टं तदा न कश्चित्संसृष्टग्रहो नाम सम्भवति यतोऽसंसृष्टा एव परमाणवः सर्वदा गृह्यन्ते। वितलदेशस्वभावानामेव तेषामवभासनात् / यदि टेकरूपा भासेरन् , अणुमात्रकः पिण्डो भासेत / न तु विततदेशभासनं स्यात् / अथ नानादेशत्वमसंसृष्टत्वमभिप्रेतं तदपि नतरामसंसृष्टग्रहो यतो नानादेशा नीला परमाणवो नानादेशा एव च गृह्यन्ते / एकदेशस्वभासने हि पिण्डो भासेताणमात्रक इत्युक्तम् / अथ रूपेणैव विजातीयेन व्यवहितत्वमसंसृष्टत्वं विवक्षितम् ; तदा तु तदसम्भवादेव न तद्विपरीतग्रहः। यतो रूपान्तरव्यवधानरहिता एव निरन्तरा नीलाः परमाणवः, भासन्ते च तथाभूता इति कथं विभ्रमः / मध्यवर्तिनो विजातीयस्यालोकादिपरमाणोरनुत्पत्तेरप्रतिभासनाच्च / .. अथ च्छायालोकपरमाणुरुत्पद्यमानः केन प्रतिबद्धो यतो नोत्पद्यते / न च शक्यं वक्तुम्-मध्ये परमाण्वोर्नास्ति परमाण्वन्तरस्यावकाश इति / यतो निरवयवः परमाणुः सर्वत्र सावकाश इति / सत्यमेतत् / केवलं नावकाशाभावात् तदनुत्पत्तिरपि तु हेत्वभावात् / कस्माद् हेतुर्न भवति ? स्वहे[ 9b]त्वभावादित्यपर्यनुयोग एव / अथ भिन्नेन्द्रियग्राह्यस्पर्शादिव्यवकीर्णत्वमसंसृष्टत्वमभिमतम् / तदा संसृष्टान् परमाणुन् गृह्णाति विज्ञानमिति इन्द्रियान्तरग्राह्यशून्यान् गातीत्युक्तं भवति / तथा च न किञ्चिदनिष्टम / तथाहि यदि नामेन्द्रियान्तरग्राह्यस्पर्शादिर्न गृह्यते तथापि नीलरूपं तावत् स्वदेशस्वभावस्थितं गृह्यत एव / न च भिन्नेन्द्रियग्राह्यशून्यानां स्वरूपं गृह्यमाणं विपरीतं गृहीतं भवति / देशकालाकाराणामेकस्याप्यविपर्यासात् / न चाग्रहो भ्रम इति / ननु च परमाणूनामन्तराण्याकाशात्मकानि सन्ति / न च ते सान्तराः प्रतिभासन्ते / तत्कथमविपर्यास इति। अथ किमिदमाकाशं नाम / यदि रूपान्तरात्मकं तन्नास्तीत्युक्तम्। अथापि स्पर्शाद्यात्मकं तत्राप्युक्तम् / अथ सप्रतिवद्रव्याभावः / एवमप्यवस्त्वाकाशम् / , ततश्चाकाशमन्तरमित्यन्यवस्त्वन्तरं न किञ्चिदन्तरमित्युक्तं स्यात् / तथा निरन्तराः परमाणव