________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.4. एतच्च लक्षणद्वयं विप्रतिपत्तिनिरासार्थम्,२ न त्वनुमाननिवृत्त्यर्थम्। यतः .. इत्युक्तं भवति / ततो निरन्तराश्च परमाणवो निरन्तरा एव भासन्ते / तत् किमुच्यतेऽन्तरमाकाशम् , न च तत्प्रतिभासत इति ? यत्खल्वत्यन्तमसत् शशविषाणप्रख्यं तत्कथं भासेत ? नन्वाकाशात्मनोऽप्यन्तरस्याभावे रूपसंसर्गः परमाणूनां प्रसज्येत / नैष दोषः / नास्माभिरुच्यते रूपमेकं परमाणूनां देशो नैक इति / अपि तु भिन्नरूपदेशा उत्पन्ना.. मध्यवर्ति विजातीयरूपरहितास्तथैव भासन्त इति तत् कथं रूपसंसर्गप्रसङ्गः ? ' ननु च रसादिदेशे नीलरूपं प्रतिभासते। ततश्चातद्देशं तद्देशतया गृहद् विज्ञानं कथमभ्रान्तं नामेति ? तत्राप्युच्यते। यदा देशः प्रतिभासते तदा तस्मिन् देशे प्रतिभासमाने यः प्रतिभासतेऽर्थः स देशविशिष्ट उच्यते / यदि च रसादिश्चक्षुर्विज्ञाने प्रतिभासेत तदा तद्देशव्यापिनि नीले गृह्यमाणे स्याद् भ्रान्तं विज्ञानम् / न च तत्र रसादिः प्रतिभासते, इन्द्रियान्तरग्राह्यस्येन्द्रियान्तरज्ञाने प्रतिभासायोगात् / तत् कुतस्तद्देशनीलग्रहणम् ? नीलमेव हि भासमानं देशः नापरो देशः कश्चिदाभासते। इन्द्रियान्तरग्राह्याप्रतिभासे च शद्धरूपप्रतिभासः / शुद्धरूपप्रतिभास एव च निरन्तरप्रतिभासः। ततो निरन्तरा नीला: परमाणवो गृह्यन्ते / तस्मात् स्वदेशस्थायिनो नीलपरमाणवः स्वरूपेणैव गृह्यन्ते। ततो देशकालाकाराणामेकस्याप्यपरित्यागानीलाभासं विज्ञानमभ्रान्तमेव / सर्वं चैतद् ग्राह्यतत्त्वं विनिश्चये धर्मोत्तरेणैव विस्तरेण निरूपितमिति नेह प्रतन्यते / नन्वेमभ्रान्तत्वे योगाचारमतमसङगृहीतं स्यात् / ग्राह्यग्राहकाकारतया प्रवृत्तेः सर्वस्यवासर्वज्ञविज्ञानस्यालम्बने भ्रान्तत्वात् / तत्कथं पूर्वव्याख्यानावज्ञा न क्रियत इति चेत् / उच्यते। न योगाचारनये लक्षणमिदम्, किन्तु सौत्रान्तिकनय एव / न च सर्वं विज्ञानवादे योजयि[20a] तुं शक्यम् / "तस्य विषयः स्वलक्षणम्" इत्यादेरशक्ययोजनत्वात् / तस्मिन् किं प्रत्यक्षलक्षणमिति चेत् / कल्पनापोढत्वमेव / द्विचन्द्रादिनिरासः कथमिति चेत् सम्यज्ञानं सदेवमित्यभिप्रायाददोषः / सौत्रान्तिकनयेऽपि किं नैवं? ततश्चाभ्रान्तग्रहणमतिरिच्यत इति चेत् / सत्यमेतत् / केवलं विप्रतिपत्तिनिरासार्थ वर्णयिष्यत इति / "इहाभ्रान्तपदं तैमिरिकादिज्ञानव्यवच्छेदार्थम। कल्पनापोढग्रहणं तु अनुमाननिरासार्थमिति" यत्पूर्वकैाख्यातं तद् व्यक्तमेवापहस्तयन्नाह-एतच्च-इति / चोऽवधारणे। विप्रतिपत्तिनिरासार्थमित्यतः परो द्रष्टव्यः। पूर्वेषामभिप्रेतं प्रतिषेधति / न त्विति भेदार्थः / ननु किमुच्यते न त्वनुमाननिवृत्त्यर्थमिति / यावतैकैकेनानुमाननिवर्तनादिति चेत् / उच्यते / लक्षणद्वयमिति द्वयोरुपादानं विप्रतिपत्तिनिराकरणार्थम्, एकैकेनानुमानव्यवच्छेदसिद्धेरिति समुदितफलमेतत् / ततो नानुमाननिवृत्त्यर्थमिति नानुमाननिवृत्त्यर्थमेवेति सावधारणं निषिध्यते। यदि तु विप्रतिपत्तिनिराचिकीर्षया क्रियमाणमनुमानं व्यवच्छिनत्ति न तदर्थमेव द्वयमिति / . ननु नेदं लक्षणद्वयमनुमानव्यवच्छेदार्थं पूर्वकैाख्यातम् / किन्तु कल्पनाऽपोढग्रहणमेव / अभ्रान्तग्रहणं तु द्विचन्द्रादिज्ञानव्यवच्छेदार्थम् ? तत् कथं न त्वनुमाननिवृत्त्यर्थम्, तथा, 1 कल्पनाभ्रान्त०-टि० 2 निराकरणार्थम् A.C. P. E. H. N