________________ 1.4.] प्रत्यक्षलक्षणम् / कल्पनाऽपोढग्रहणेनैवानुमानं निवर्तितम् / तत्रासत्यभ्रान्तग्रहणे गच्छवृक्षदर्शनादि प्रत्यक्ष कल्पनाऽपोढत्वात् स्यात् / ततो हि प्रवत्तेन' वृक्षमात्रमवाप्यते इति संवादकत्वात् सम्यग्यज्ञानम्, कल्पनापोढत्वाच्च प्रत्यक्षमिति स्यादाशङ्का। तन्निवृत्त्यर्थम अभ्रान्तग्रहणम् / तद्धि' भ्रान्तत्वात् न प्रत्यक्षम्। त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम्। न च प्रमाणान्तरमस्ति / अतो गच्छदवृक्षवर्शनादि मिथ्याज्ञानमित्युक्तं भवति / - - यतः कल्पनापोढग्रहणेनैवानुमानं निवतितमित्युच्यत इति चेत् / सत्यम् / केवलं यद्यभ्रान्तग्रहणं व्यवच्छेदार्थमेव तदानुमानव्यवच्छेदार्थमेव युज्यते / न तु द्विचन्द्रादिज्ञाननिरासार्थम् / तस्य सम्यग्ज्ञानाधिकारादेव व्यवच्छेदसिद्धेः / तथा हि द्विविधं सम्यग्ज्ञानमिति प्रस्तुत्य लक्षणमिदं विधीयमानं तदधिकारेणैव विहितं भवति / नन्वेवं सति कल्पनापोढग्रहणेनैव निवृत्तेरभ्रान्तग्रहणमतिरिच्यते / अयमपरस्तेषां दोषोऽस्ति। न तु द्विचन्द्रादिज्ञाननिवृत्त्यर्थमिदं यज्यत इति धर्मोत्तरस्याशयः। यद्येतदर्थमभ्रान्तग्रहणं न भवति तर्हि किमनेनेत्याह-तत्र-इति / ननु गच्छवृक्षदर्शनादेः कल्पनापोढस्यापि विसंवादकत्वेन सम्यग्ज्ञानत्वाभावादेव व्यवच्छेदे सिद्धे किमेतदर्थेनाभ्रान्तपदेनेत्याह-ततो हि-इति। वृक्षमात्रमिति गमनेनाऽनवच्छिन्नम् / इति हेतौ। अस्तु सम्यग्ज्ञानम् प्रत्यक्षसम्भावना त्वस्य कथम् ? न हि यदेव सम्यग्ज्ञानं तदेव प्रत्यक्षमित्याशङक्य पूर्वोक्तमेव प्रसङ्गेनाह-कल्पना-इति / चः संवादकत्वापेक्षया समुच्चयार्थः / इतिकरणेनाशङ्कायाः स्वरूपं दर्शयति / आशङ्का चेयमीदृशी * यौक्ती द्रष्टव्या। यद् वा चो यस्मादर्थे / ........ असत्यभ्रान्तग्रहणे स्यादियमाशङ्का / 'यदि सत्यपि स्यात्तदा किमनेनेत्याह-तन्निवृत्त्यर्थमिति शङकानिवृत्त्यर्थमात्रम् / अनेन एतद् दर्शयति यद्यपि परमार्थतः सम्यग्ज्ञानाधिकारादेवमादिज्ञानं व्यवच्छिद्यते / तथाप्यंशसंवादवादिनामाहत्य विप्रतिपत्तिनिराकरणार्थं क20b]र्तव्यमेवाभ्रान्तग्रहणमिति / स्यादेतत्-किमभ्रान्तग्रहणेनाधिकं कृतम् / येनैतद् विप्रतिपत्तिनिराकरणार्थं भवतीत्याशङ्कायां दूरस्थितमपि गच्छवृक्षदर्शनादि मिथ्याज्ञानमित्युक्तं भवतीति योजनीयम् / इतिना उक्तेराकारं कथयति / उक्तं प्रकाशितं भवत्यभ्रान्तग्रहणेनेति प्रकरणात् / कुतो मिथ्याज्ञानं तदुक्तमित्यपेक्षायां प्रथममुक्तं तदिति योजनीयम् / हिर्यस्मात् / ततोऽयमर्थः-- यस्मात् तद् गच्छवृक्षदर्शनादि भ्रान्तत्वात् न प्रत्यक्षम्, अतो मिथ्याज्ञानमित्यभ्रान्तग्रहणेनोक्तं भवति / भवतु भ्रान्तत्वादप्रत्यक्षम्, अनुमानरूपत्वे त्वनिवर्तिते कथमस्य तथात्वमित्याशङ्कायां योज्यम् / चो यस्मानानुमानम् / कथं नानुमानम् ? त्रिरूपलिङ्गजत्वाभावात् / यद्येवमन्यत्प्रमाणं भविष्यति, तथापि कथं मिथ्याज्ञानमित्याशङ्कायां वाच्यम् / चो यस्मान्नाभ्यां प्रमाणान्तरमस्ति / अतः प्रत्यक्षत्वादिस्वभावत्वाभावात् / यद् वाऽतोऽभ्रान्तग्रहणादित्यर्थः / नन्वनुमानादिरूपनिराकरणे यद्यभ्रान्तग्रहणस्य व्यापारो भवेत्, भवेदेव मिथ्याज्ञानत्वाभिषाने सामर्थ्य यावतो (ता) यथा स्वयमुपपत्त्यैवानुमानादिभावो व्युदस्तस्तत् कथमभ्रान्तप्रमात्रा-टि० 2 गच्छवृक्ष[दर्शनम्]-टि०