________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.4. यदि मिथ्याज्ञानम्, कथं ततो वृक्षावाप्तिरिति चेत्, न ततो वृक्षावाप्तिः। नानादेशगामी हि वृक्षस्तेन परिच्छिन्नः। एकदेशनियतश्च वृक्षोऽवाप्यते। ततो यद्देशो२ गच्छवृक्षो दृष्टः, तद्देशो नावाप्यते / यद्देशश्चावाप्यते स न दृष्ट इति न तस्मात् कश्चिवर्थोऽवाप्यते / ज्ञानान्तरादेव तु वृक्षादिरर्थोऽवाप्यते। इत्येवमभ्रान्तग्रहणं विप्रतिपत्तिनिरासार्थम् / . तथा" अभ्रान्तग्रहणेनाप्यनुमाने निवतिते कल्पनापोढग्रहणं ६विप्रतिपत्तिनिराकरणा ग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युच्यते। सत्यम् / किन्त्वनमानादिरूपतानिराकरणहेतुना दत्तसाहायकेन सताऽभ्रान्तग्रहणेन तन्मिथ्याज्ञानमित्युक्तं भवतीत्युक्तमिति बोद्धव्यम् / . व ननु प्रत्यक्षलक्षणशून्यस्याप्रत्यक्षतव दर्शयितव्या, तत्किमनुमानादिरूपतानिराकरणम- . प्रकृतं कृतमिति चेत् / अप्रत्यक्षत्वप्रदर्शने प्रसङ्गेन कृतमिति का क्षति: ? / यदीत्यादि' सुगमम् / केवलं तत इति गच्छद्वक्षदर्शनरूपान्मिथ्याज्ञानात्परिच्छिन्नो' दृष्टः। वृक्ष इति वृक्षत्वेन प्रथनादुच्यते न त्वसौ तथाऽवभासमानो वृक्ष एव / एकदेशनियत इति प्राप्यमाणपरमार्थवृक्षाभिप्रायेणोक्तम् / चो हेतौ। ततस्तस्मादनन्तरोक्तात् कारणात् / चोप्राप्यमाणाद् भेदमस्य दर्शयति / इतिः हेतौ। तस्मान्मिथ्याज्ञानात् / ननु ततोऽपि प्रवृत्तस्यास्ति च्छायाद्यर्थक्रियाकारिरूपस्य पादपस्य प्राप्तिस्तत्कथमपतूयत इति ? आह-ज्ञानान्तराद्-इति / तद्देशोपसर्पणजन्मनः स्थितवृक्षप्रतिभासात्मनो ज्ञानान्तरात् / तत्र मिथ्याज्ञानमर्थिनः प्रवृत्तिमात्रहेतुर्न तु वृक्षप्रापकमिति संक्षेपार्थः / यदि मिथ्याज्ञानत्वप्रतिपादनार्थमभ्रान्तग्रहणं ने तर्हि विप्रतिपत्तिनिराकरणार्थमित्याह-एवम् इति / एवमित्यनेनानन्तरोक्तस्योपपत्तिप्रकारस्याकारो दर्शितः। ततोऽयमर्थः–एवमनन्तरोक्तेन युक्तिप्रकारेण / एतादृशमपि प्रत्यक्षमिति विरुद्धायाः प्रतिपत्तेनिरासार्थमभ्रान्तग्रहणमिति / यद्येवमभ्रान्तग्रहणमेव विप्रतिपत्तिनिराकरणार्थम् / न तु कल्पनापोढग्रहणम् / उक्तं च द्वयमेतत् तन्निरासार्थमित्याशङक्याह-तथेति / यथाऽभ्रान्तपदं तथेदमित्यर्थः / विप्रतिपत्तिनिराकरणार्थमिति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पस्य व्यावहारिकलोकाध्यवसायेनाभ्रान्तस्य यत्प्रत्यक्षत्वं कैश्चिदिष्टम् , तन्नि[21a] राकरणार्थमिति द्रष्टव्यम् / तत्रासति कल्पनापोढग्रहणे घटोयमित्यादिज्ञानं प्रत्यक्षमभ्रान्तत्वात् स्यात्। ततो हि प्रवृत्तेन घटादिरर्थः प्राप्यत इति संवादकत्वात्सम्यग्ज्ञानमभ्रान्तत्वाच्च प्रत्यक्षं स्यादा (दित्या) शङका / तन्निवृत्यर्थम् / कल्पनात्मकत्वान्न प्रत्यक्षम् , त्रिरूपलिङ्गजत्वाभावाच्च नानुमानम् / ०गामी वृक्षः-C 2 यो देशो यस्य-टि० 1. प्यते न स दृष्ट इति–८ 4 देव च वृ० B.D 5 तथेत्यारभ्य विप्रतिपत्तिनिराकरणार्थमित्यन्तः पाठो नास्ति-A. P. E. H. ____6 सविकल्पकज्ञानमपि प्रत्यक्षमित्युक्तं मीमांसकैः यथा “अस्ति ह्यालोचना"[मीमांसाश्लो. प्रत्यक्षसूत्र-श्लो० 112] इत्यादि / एतस्य विप्रतिपत्ते:-टि०