________________ 1.5. ] कल्पनालक्षणम् / र्थम् / भ्रान्तं हि अनुमानं स्वप्रतिभासेऽनर्थे ऽर्थाध्यवसायेन प्रवृत्तत्वात् / प्रत्यक्षं तु ग्राहो रूपे न विपर्यस्तम् / न तु अविसंवादकमभ्रान्तमिह ग्रहीतव्यम् / यतः सम्यग्ज्ञानमेव प्रत्यक्षम्, नान्यत् / तत्र सम्यग्ज्ञानत्वादेवाऽविसंवादकत्वे लब्धे पुनरविसंवादक ग्रहणं निष्प्रयोजनमेव / एवं हि वाक्यार्थाः स्यात्-प्रत्यक्षाख्यं यदविसंवादकं ज्ञानं तत् कल्पनापोढमविसंवादकं चेति / न चानेन द्विरविसंवादकग्रहणेन किञ्चित् / तस्माद् ग्राह्येऽर्थक्रियाक्षमे वस्तुरूपे यदविपर्यस्तं तदभ्रान्तमिह वेदितव्यम् // कीदृशी पुनः कल्पनेह गृह्यत इत्याह अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना // 5 // अभिलापेत्यादि। अभिल प्यतेऽनेनेति अभिलाप: वाचकः शब्दः / अभिलापेन संसर्गः- अभिलापसंसर्गः-एकस्मिन् ज्ञानेऽभिधेयाकारस्याभिधानाकारेण सह १°ग्राहाकारतया न च प्रमाणान्तरमस्ति / अतो घटोऽयमित्यादिज्ञानमसम्यग्ज्ञानं भवतीति पूर्ववद् वचनीयं योजनीयं च / ननु च संवादिनोऽस्य कथमसम्यग्ज्ञानत्वम् ? यदि नाम विसंवादकत्वलक्षणम् असम्यरज्ञानत्वं नास्ति तथापि गृहीतार्थग्राहिणोऽस्यापूर्वाधिगमाभावात् करणार्थाभावरूपमसम्यग्ज्ञानत्वं स्मरणादेरिव किं नानुमन्यते ? जात्यादिविशिष्टवस्तुग्राहिणोऽस्यापूर्थािधिगमोऽस्तीति चेत् / इदमन्यत्र पिस्तरेण निरस्तमित्यास्तां तावदिहेति / स्वप्रतिभास इत्यादेर्ग्रन्थस्य तु. सत्यमर्थं विषयविप्रतिपत्तिनिराकरणवाक्यविवरणं विवेचयिष्यन्तो विवेचायष्याम. . . - - दोषदर्शनात्पूर्वेषां व्याख्यानमवमन्यान्यथाऽयमभ्रान्तार्थं व्याचष्टे तं कण्ठोक्तं कत्तुं तेषामभिमतमभ्रान्तार्थं पूर्व सामर्थ्यानिषिद्धमपि साक्षानिषेधन्नाह-न तु-इति / तुरतिशये। यत इत्यादि वेदितव्यमित्यन्तं सुबोधम् / यदि जात्यादियोजनात्मिका कल्पना। सा जात्याद्यभावादेव न सम्भवति। अथ ग्राह्यग्राहकभावेन प्रर्वर्तमानं ज्ञानं कल्पना तदा सर्वमसर्वज्ञज्ञान तथा प्रवृत्तमिति किमवशिष्यते यदविकल्पक स्यादित्यभिप्रेत्य कल्पनायाः स्वरूपं पृच्छति-कोदशीति सामान्यतः पृच्छति। पुनरिति विशेषतः। इहेति प्रत्यक्षलक्षणे / अभिलप्यते उच्यतेऽनेनेत्यभिलापो वाचकः शब्दः। स च सङ्केत 1 विप्रतिपत्तिनिरासार्थम्-B. C. D. N. 2 सामान्य-टि० ३०वादग्रह० E ०वादकत्वग्रह C ... 4 न किञ्चित् प्रयोजनम्-टि० ५०भासप्र 0B.P.E.H.N. 6 अभिलापेति-E. P / नास्ति-A. B. H. N. * ननु न (च) यद्यपि तस्मिन् ज्ञाने आकारयोमिलनं तथापि शब्दार्थयोः संसर्गो नास्तीत्याह-टि० अभिलाप्यते-A. P. H. E. 9 नास्ति-अभिलापसंसर्गः' इति-A. P. E. 10 वाच्यरूपत्वेन-टि०