________________ 48 प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.5. मिलनम्। ततो यदैकस्मिज्ञानेऽभिधेया भिधानयोराकारौ संनिविष्टौ भवतस्तदा संसृष्टे अभिधानाभिधेये भवतः। अभिलापसंसर्गाय योग्योऽभिधेयाकार(रा)भासो यस्यां प्रतीतौ सा तथोक्ता। - तत्र काचित् प्रतीतिरभिलापसंसृष्टाभासा' भवति / यथा व्युत्पन्नसंकेतस्य घटार्थकल्पना घटशब्दसंसृष्टार्थावभासा भवति / काचित्त्वभिलापेनासंसृष्टापि अभिलापसंसर्गयोग्याभासा भवति / यथा बालकस्याव्युत्पन्नसंकेतस्य कल्पना। तत्र 'अभिलापसंसृष्टाभासा कल्पना' इत्युक्तावव्युत्पन्नसंकेतस्य कल्पना न संगृह्येत / योग्यग्रहणे तु १°सापि संगृह्यते। यद्यपि अभिलापसंसृष्टाभासा'१ न भवति तदहर्जातस्य १२बालकस्य कल्पना, अभिलापसंसर्गयोग्यप्रतिभासा तु भवत्येव / या चाभिलापसंसृष्टा सापि योग्या। तत उभयोरपि योग्यग्रहणेन संग्रहः / कालेन- दृष्टेन रूपेणक्यमापादितोऽन्तर्जल्पाकारस्तथा प्रतिभासमानो वाच्यः / संसर्गपदेन सार्धमस्य विग्रहं प्राह-अभिलापेन-इति / अभिलापेन वाचकेन संसर्गः सम्बन्धः / "तृतीये"[पाणिनि २-१-३०]ति योगविभागात्समासः / अथवाऽर्थकथनमिदं कृतम्, समासस्तु षष्ठीतत्पुरुषः कार्यः / कथं पुनर्वाच्यवाचकयोः संसर्गः सम्भवतीत्याह-एकस्मिन् इति / ग्राहाकारतया मीलनमित्येकज्ञानग्राह्याकारतयाऽवस्थानमिति वाच्यम् / अर्थाकारश्चेद् वाचकशब्दाकारेण सहकज्ञानारूढो भवति तदा वाच्यवाचकयोः संसर्ग इति यावत् / भवत्वभिधानाभिधेयाकारयोरेकज्ञानारोहः / किमेतावताऽभिधानाभिधेये वाच्यवाचकतया सम्बढे अवतः, पेन तनाहि विज्ञान साविकपमानिनामपिसंहारव्याजेनाह-तत इति / यदाकारौ संनिविष्टौ प्रतिभासितौ भवतस्तदा संसृष्टे तथातया सम्बद्धे भवतः। एकस्मिन् ज्ञाने विशेष्यविशेषणत्वेनाकारप्रतिभास एवानयोर्वाच्यवाचकत्वग्रहणमिति भावः / अभिलापसंसर्गाय योग्य इत्यर्थकथनमिदं [21b] कृतम्। समासस्त्वभिलापसंसर्गस्य योग्य इति कर्त्तव्यः / तादर्थ्यचतुर्थ्याः प्रकृतिविकार एव समासात् / यद्येवमभिलापसंसृष्टप्रतिभासेत्येवास्तु किं योग्यग्रहणेनेत्युपालम्भं पश्यन् यथाऽस्य साफल्यं तथा दर्शयितुमुपक्रमते-तत्रेति / वाक्योपन्यासे चैतत् / अभिलापसंसृष्ट आभासो यस्याः सा तथा / कस्यवेत्याह-यथेति / इदमस्य वाच्यमिदमस्य वाचकमित्युभयांशाव 1 ०ज्ञानेऽभिधानाभिधेययो:-B.. २०कारौ निविष्टौ B. . अभिधेयाभासो A. P. H. E. अभिधेयाकाराभासो-N. 4 लापेन संसृ० A. P. H. E. N. 5 नास्ति B. D. 6 सृष्टप्रतिभासा D. संसृष्टप्र[ति] भासा B. 7 नास्ति 'कल्पना' इति A. B. P. H. E. N.. संगृह्यते C. 9 ०ग्रहणेन तु C. 0 बालकल्पना-टि० 1. सृष्टप्रतिभासा C. A. 12 नास्ति 'बालकस्य' इति A. P.E.