________________ कल्पनालक्षणम् / 49 . असत्यभिलापसंसर्गे कुतो योग्यतावसितिरिति चेत् / अनियतप्रतिभासत्वात् / २अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् / ग्राह्यो ार्थों विज्ञानं जनयन्नियतप्रतिभासं कुर्यात् / यथा रूपं चक्षुर्विज्ञानं जनयन्नियतप्रतिभासं जनयति / विकल्पविज्ञानं त्वर्थानोत्पद्यते / ततः प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् / लम्बिज्ञानं सत्तः, शब्दार्थप्रयोगप्रतिपत्त्योः कार्यकारणभावरूपो वा / व्युत्पन्नो ज्ञातः संकेतो येन स व्युत्पन्नस्टंकेतः / तस्य यदि सर्वैव तादृशी तदा काचिदिति न वाच्यम्, योग्यग्रहणेन च न किञ्चिदित्याह-काचिद् इति। तुः व्युत्पन्नसंकेतप्रतीतेर्बालप्रतीति भेदवतीमाह / कस्य सदृशी संभवतीत्याह-यथेति / बालक इत्यल्पार्थे कन् / यद्यभिलापसंसष्टाभासेति कृतेऽपि तथाभूतायाः प्रतीतेः संग्रहः, कृतं तर्हि योग्यग्रहणेनेत्याह-तत्रेति / तयोर्मध्येऽव्युत्पन्नसंकेतस्य या सान संगृह्यते / कदा तु संगृह्यतेत्याह-अभिलापेति। अर्थप्रदर्शनत्वादस्याभिलापंसंसृष्टाभासा प्रतीतिः कल्पनेत्युक्तौ वचने सतीत्यर्थः / इतिनोक्तेराकारः कथितः / असति तावदयं दोषः। यदि सत्यपि योग्यग्रहणे तदसंग्रहस्तथापि किं तेनेत्याहयोग्येति / तुरकरणावस्थाया विशेषमाह / न केवलं तत्संसृष्टाभासेत्यपिशब्दः / तथाविधबालस्य च कल्पनाऽनुमानसिद्धा। तेन साऽवश्यं ग्राह्येति भावः / कथं पूनर्योग्यग्रहणेन तस्याः संग्रह इत्याह-यद्यपीति। निपातसमुदायोऽयं विशेषाभिधानार्थाभ्यपगमे सर्वत्र / अह्नि जातं जन्मास्येति तथा। अह्नि वा जात उत्पन्न इति तथा / अहर्जातस्यैतदहर्जातस्येति द्रष्टव्यम् / यद्येवं व्युत्पन्नसङ्केतस्य सा कथं सङगृह्यत इत्याह-या चेति / च पूर्वापेक्षया समुच्चये। यदि सा तत्संसर्गयोग्या न स्यात्कथं तत्संसर्गमनुभवेदिति भावः / यत एवं तस्मात् / - ननु प्रतीतप्रतिभासस्य तत्संसर्गानुभवान्यथानुपपत्त्या योग्यता कल्पनीया। न च बालकल्पनाया अभिलापसंसर्गोऽस्ति, सङ्केताव्युत्पत्तेः / तत्कथं योग्यता कल्प्यतामित्यभिसन्धिना असतीत्यादिना पूर्वपक्षमुत्थापयति / एवं चोदयित्वाऽनुमानतः सा सिद्धयतीति मन्वानः साधनमाह-अनियतेति / प्रतिनियताकारत्वाभावादित्यर्थः / प्रकरणापन्ने साध्ये हेतौ चाभिहिते सुकरः साधनप्रयोग इति प्रयोगं न जगौ। एवमुत्तरत्रापि हेतुमात्राभिधानेऽ स्यायमभिप्रायः प्रत्येतव्यः / प्रयोगस्त्वेवमिह कर्त्तव्यः——योऽनियतप्रतिभासो विकल्पः, स . शब्दसंसर्गयोग्यो यथाच्छात्रविकल्पः / अनियतप्रतिभासश्च बालविकल्प इति भवत्येव प्रयोगः / केवलमिदमत्र निरूप्यताम् / बालस्य विकल्प एव कुतः सिद्धो येनेदमुत्तराणि चैतदङ्गानि 'साधनानि ना[22a]श्रयासिद्धानि स्युरिति ? नैषदोषः / अनुमानसिद्धं विकल्पं धर्मिणं कृत्वाऽमीषामुपादानस्याभिप्रेतत्वात् / तत्पुनरनुमानमनेन सुज्ञातत्वान्नोपन्यस्तमिति वेदितव्यम् / एवं तद् द्रष्टव्यम्-या नियमवती प्रवृत्तिः क्वचित्प्राणिनः, सा विकल्पपूर्विका / यथा व्युत्पन्नसङकेतव्यवहारस्यान्नादिविषया प्रवृत्तिः / नियमवती च तदितरपरिहारेण स्तनादौ प्रवृत्तिर्बालकस्येति कार्यहेतुः / सा च तादृशी प्रवृत्तिः प्रत्यक्षाधिगतेति स्वसिद्धौ न प्रमाणान्तरं योग्यत्वावसितिः C. D. B. 2 नन च विकल्पज्ञानस्यानिवतप्रतिभासित्वमेव न सिद्धम-टि० .. .