________________ प्रथमः प्रत्यक्षपरिच्छेदः। . कुतः पुनरेतद्विकल्पोन्निोत्पद्यत इति ? 'अर्थसंनिधिनिरपेक्षत्वात् / बालोऽपि हि' यावद् दृश्यमानं स्तनं 'स एवायम्' इति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो प्रयोजयति / न पुनरनेन बालोऽपि हीत्यादिना विकल्पसाधनमुपन्यस्तमिति मन्तव्यम्, यथाऽन्याख्यातम्, अर्थसन्निधिनिरपेक्षत्वसिद्धिप्रदर्शनोन्मुखत्वात्तस्य ग्रन्थस्येति / ननु च परोक्षत्वात्तस्यानियतप्रतिभासत्वसंदेहे सन्दिग्धासिद्धोऽयं हेतुरिति / आहअनियतप्रतिभासत्वं च-इति / चो यस्मादित्यस्मिन्नर्थे / प्रतिभासस्य ज्ञानाकारस्य नियमःअर्थाकार एवायं शब्दाकार एव वा, रूपाकार एवायं रसाकार एव वेत्यात्मको वा तस्य हेतुर्जनकः तस्माद् / अभावादनुत्पादात् / भवनं भाव उत्पादस्तन्निषेधाद् अभावोऽनुत्पाद एव। प्रतिभासनियमहेतोरभावाद्-अविद्यमानत्वादिति व्याख्याने तु यथाश्रति व्यधिकरणासिद्धो हेतुः स्यात् / अन्यथा हेतुवचने तु क्रियमाणे तत्रार्थे हेतुरनभिहित एव स्यात् / साधनस्वरूपमात्रकथने चात्र धर्मोत्तरस्य शैली लक्ष्यते / कुतः पुनरेतद् विकल्पोऽर्थानोत्पद्यत इति च पूर्वपक्षः सूत्थानो न स्यात् / मृत्वा शीर्वा यथा कथंचित् सर्वस्यास्य समर्थने च वक्तुरकौशलं स्यादिति / नन प्रतिभासनियमहेतुर्यः कश्चन / स च तत्र भविष्यति / अथ विशिष्टः / / वक्तव्यस्तदाऽसौ यतः सकाशादनुत्पादात्तथात्वं ज्ञातव्यमित्याह-ग्राह्य इति / यद्यर्थ इत्येव क्रियेत तदेन्द्रियमप्यर्थो ज्ञानं जनयतीति तस्याप्याकारनियामकत्वं स्यात् / न चापोद्धारद्वारेण तस्याकारविशेषहेतुत्वं व्यवस्थापितम्, अपि तु विषयग्रहणप्रतिनियमहेतुत्वमिति ग्राह्यग्रहणम् / ग्राह्य आलम्बनः / यद्येवं ग्राह्य इत्येवास्तु। अपोहस्यापि ग्राह्यताऽस्ति / न चाऽसौ प्रतिभासनियमहेतुः / अतस्तन्निवृत्त्यर्थमर्थोऽर्थक्रियासमर्थ इति कृतम् / कुर्यात् कर्तु शक्नोति / अपोद्धारेण तत्रैव तच्छक्तेरवधृतत्वात् / अत्र निदर्शनं यथेति / नियतप्रतिभासमिति शब्दाकारपरिहारेणाकारधार्येव रसाकारपरिहारेण रूपाकारधार्येव चेति / यद्येवं बालविकल्पोऽपि अर्थादेवोत्पत्स्यते, ततो नियतप्रतिभासो भविष्यतीत्याशङक्य पूर्वोक्तमेव प्रसङ्गेन स्मारयति-विकल्पेति / तुरुदाहृताद् विज्ञानं भिनत्ति / एवं तु प्रयोगः कार्यः—यदर्थानोत्पद्यते ज्ञानं तन्नियत रतिभासं न भवति / यथा व्युत्पन्नव्यवहारस्यातीतादिस्मरणम्, रूपरसादिसङ्कलनाज्ञानं वा। नोत्पद्यते चा[22b]र्थाद् बालकस्य विकल्प इति ब्यापकानुपलब्धिः / ननु बालविकल्पस्य परोक्षत्वात् तत उत्पत्तिरनुत्पत्तिर्वा न शक्यते निश्चेतुम् / अतोऽयं सन्दिग्धासिद्धो हेतुरित्यभिप्रेत्य चोदयति कुत इति सामान्यहेतोः प्रश्नः / पुनरिति विशेषस्य / विदोक्त्या चायं क्षेपे किमः प्रयोगः / तेन न कुतश्चिद्धेतोरिदमित्यर्थः। हेतुमाह-अर्थेति / एवं तु प्रयोग: करणीयः-यज्ज्ञानं स्वोत्पत्तावर्थसन्निधिनिरपेक्षं तदर्थानोत्पद्यते / यथा व्यत्पन्नसतस्य चिरनष्टवस्तुविषयं विज्ञानम्। अर्थसन्निधिनिरपेक्षं च बालविकल्पविज्ञानमिति विरुद्धव्याप्तोपलब्धिः / असिद्धिमस्याः परिहर्तु भूमिकां रचयन्नाह-बालोऽपि हि-इत्यादि। 1 उत्तरमाह-टि.