________________ 1.5.] . - कल्पनालक्षणम् / / मुखमर्पयति स्तने। पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद् विज्ञानमसंनिहितविषयम्, पूर्वदृष्टस्यासंनिहितत्वात् / असंनिहितविषयं चार्थनिरपेक्षम् / अनपेक्षं च प्रतिभासनियमहेतोरभावादनियतप्रतिभासम् / तादृशं चाभिलापसंसर्गयोग्यम् / न केवलं व्युत्पन्न इत्यपिशब्दः / हिर्यस्मात् / यावदिति निपातोऽवधौ। पूर्वदष्टत्वं पूर्वदर्शनविषयत्वम् / तेन यो मया पूर्व क्षत्प्रतिघातहेतुत्वेन प्रतिपन्नः स एवाऽयमिति प्रत्यवमर्षस्य रूपमाचष्टे। न प्रत्यवमशति न प्रत्यभिजानाति। तावदित्यप्यवधौ। उपरतं रुदितं यस्मात् स तथा सन्नार्पयति / सर्वैरेव स्वसंततावेवमादिव्यवहारस्य दृष्टदृश्यमानयोरेकीकरणकारणत्वेनावगतत्वादेवमुच्यते। तस्यैव चान्यत्र लोष्टादौ ढौकितेऽपि तथाऽदर्शनाच्च / ननु बालस्य करणानामपाटवात् संकेताग्रहणाच्च नान्तर्जल्पाकारोपि शब्दः संभवति / संभवे वा योग्यग्रहणानर्थक्यम् / तत्कथमेवं यावन्न प्रत्यवमृशति-इत्युच्यते ? उच्यते / अनयैव हि भङ्गया अस्ति सा काचिद् दृष्टदृश्यमानयोरेकीकरणावस्था या तत्र निमित्तमिति प्रतिपाद्यते। सा च शब्देन प्रतिपाद्यमाना अभ्यस्तेनामुना शब्देन प्रतिपाद्यते। न पुनरेवमेवासौ प्रत्यवमृशतीत्युच्यते। ननु द्वितीयादिदर्शनकाले भवतु पूर्वदृष्टापरदृष्टयोरेकीकरणेन मुखार्पणम्, भूमिपातानन्तरं तु कथम् ? न खलु स्तनमद्राक्षीद् असौ येन दृष्टेन दृश्यमानमेकीकृत्यार्पयेत् / तदा तु जन्मान्तरानुभवादिति ब्रूम। तत्रापि जन्मनि जन्मान्तरानुभवबलात् / न चादिमान् संसार इति का क्षतिः ? शब्दाकारोऽपि तत्रास्त्येव / तत् किमनेन योग्यग्रहणसफलीकरणप्रयासेनेति चेत् / अस्तु तत्र जन्मान्तराभ्यासात् संमूच्छितः शब्दाकारः, मा च भूत् सर्वथा पश्चाव्युत्पत्स्यमानेन विशिष्टेन शब्देन संसृष्टार्थप्रतिभासः, न भवति तस्य विकल्पप्रत्यय इत्युच्यते / स एवायमिति पूर्वदृष्टत्वेन स्तनं प्रत्यवमृशतु। किमत इत्याह-पूर्वदृष्टेति / पूर्वदृष्टं चापरदृष्टं चेति द्वन्द्वैकवद्भावः। चोऽवधारणे कुर्वदित्यस्मात्परो द्रष्टव्यः / हेतौ का शतृप्रत्ययः / तेनायमर्थः-यस्मात्पूर्वदृष्टापरदृष्टमेकीकरोत्येव तस्मादसन्निहितविषयमिति / तथा कुर्वदपि कथमसन्निहितविषयमित्याह-पूर्वदृष्टत्वस्य'-इति / अयमाशयः—पूर्वदर्शनविषयत्वं पूर्वदृष्टत्वमुच्यते / निवृत्ते च पूर्वदर्शने पूर्वदर्शनविषयत्वं वस्तुनो नास्ति / तदुत्तरकालभाविना ज्ञानेन पूर्वज्ञानविष[23a]यत्वमसन्निहितमेव वस्तुनो दृश्यत इति / भवत्वसन्निहितविषयम्, 'अर्थसन्निधिनिरपेक्षं तु कथं सिद्धमित्याह-असन्निहितेति / चो यस्मात् / असन्निहितविषयमर्थसन्निधिनिरपेक्षम / अनेनार्थसन्निधिनिरपेक्षत्वेऽर्थसन्निधिनिरपेक्षत्वं हेतुमाह / ईदृशस्तु प्रयोगो ज्ञातव्यः ---यदसन्निहितविषयं ज्ञानं तदर्थसन्निधिनिरपेक्षम् , यथाऽतीतानागतविषयोऽस्मदादिविकल्पः / पूर्वदृष्टत्वेन प्रत्यभिज्ञानाच्च बालविज्ञानमसन्निहितविषयमिति स्वभावः / सम्प्रति शिष्याणां सुखप्रतिपथं यथोत्तरोत्तरस्य हेतोः सिद्धौ पूर्वपूर्वस्य हेतोः सिद्धिर्भवति तथा दर्शयति-अनपेक्षं च-इति / 1. धर्मोत्तरे सर्वप्रतिषु 'पूर्वदृष्टस्य' इति पाठः-सं०