________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.5. इन्द्रियविज्ञानं तु संनिहितार्थ मात्रग्राहित्वादर्थसापेक्षम् / अर्थस्य च प्रतिभासनियमहेतुत्वानियतप्रतिभासम्। ततो नाभिलापसंसर्गयोग्यम् / / . अत एव स्वलक्षणस्यापि वाच्यवाचकभावमभ्युपगम्य तदविकल्पकत्वमुच्यते / यद्यपि हि स्वलक्षणमेव. वाच्यं वाचकं च भवेत् तथापि अभिलापसंसृष्टार्थ विज्ञानं सविकल्पकम् / न चेन्द्रियविज्ञानम् अर्थेन नियमितप्रतिभासत्वाद अभिलापसंसर्गयोग्यप्रतिभासं भवतीति निर्विकल्पकम् / श्रोत्रज्ञानं तहि शब्दस्वलक्षणग्राहि शब्दस्वलक्षणं च किंचिद्वाच्यं किंचिद्वाचकम्इत्यभिलापसंसर्गयोग्यप्रतिभासं स्यात् / तथा च सविकल्पकं स्यात् / - नैष दोषः / सत्यपि स्वलक्षणस्य वाच्यवाचकभावे संकेतकालदृष्टत्वेन गृह्यमाणं नन किमनियतप्रतिभासत्वे साध्येऽर्थनिरपेक्षत्वं हेतुर्येन तथा सदनियतप्रतिभासमित्युच्यते / प्रतिभासनियमहेतोरिति च मध्यवर्ती च ग्रन्थः कथं नेयः ? उच्यते। नायमनपेक्षमित्यादिरेकवाक्यतया नेयः / किं तर्हि ? वाक्यभेदोऽत्र कर्त्तव्यः / तत्र चो यस्मात / अनपेक्षमर्थसन्निधिनिरपेक्षं सत्प्रतिभासनियमहेतोरनुत्पन्नमिति प्रतिभासनियमहेतोरभावादित्यस्य सामर्थ्याद् वाक्यभेदं कृत्वा। ततः प्रतिभासनियमहेतोरभावादनुत्पादादनियतप्रतिभासमिति योजनीयम् / तादृशमित्यनियतप्रतिभासम् / चो वक्तव्यमित्येतदित्यस्मिन्नर्थे / ... सर्वमेतदिन्द्रियज्ञानेऽपि पर: कदाचिदाशङ्कयेदिति तन्निरासार्थमाह-इन्द्रियेति / वर्विकल्पज्ञानं विशिनष्टि / ततो नियतप्रतिभासत्वात् / ___ इह पूर्वव्याख्यातृभिः “असामर्थ्यवैयर्थ्याभ्यां स्वलक्षणस्य सङ्केतयितुमशक्यत्वादवाच्यवाचकत्वम् / अवाच्यावाचकस्वलक्षणग्राहित्वाच्चेन्द्रियज्ञानमविकल्पकमिति" व्याख्यातम् / तच्चावद्यम्, अन्यथाऽप्यविकल्पत्वस्य सुसाधत्वात्, किमन्यापोहानयनेनाप्रकृतेनेति मन्यमान आह-अत एव-इति / यस्मादिन्द्रियज्ञानं नियतप्रतिभासम्-अत एव अस्मादेव हेतोः / स्वलक्षणं वक्ष्यमाणलक्षणम् / अपिरवधारणे। वाच्यग्रहणे कथमविकल्पकमित्याह-यद्यपि हि-इति / यद्यपि हीति निपातसमुदायो 'यदि नाम'शब्दस्यार्थे वर्तते। हिर्वाक्यालङ्कारो वा / अभिलापसंसष्टार्थं सद् विज्ञानं विकल्पकं भवति / एवं ब्रुवतोऽयं भाव:-कोष्ठशद्धया वाच्यमस्त स्वलक्षण तथापि तदिन्द्रियज्ञानं केवलमेव स्वलक्षणमात्मन्यादर्शयति / न तु वाचकमपीति कथमभिलापसंसृष्टार्थप्रतिभासत्वं विकल्पकत्वमात्मसात् कुर्यादिति। संनिहितमात्रग्रा० A.P. H. E. N. 2 इन्द्रियविज्ञानम्-टि० / एतस्य इन्द्रियग्राहिणो ज्ञानस्य-टि. 4 वाच्यवाचकभावसद्भावेपि अभिलापसंसृष्टार्थ सद् विज्ञानं सविकल्पकम् , अन्यथा निर्विकल्पकमित्यर्थ:-टि० 5 श्रोत्रविज्ञानं B. D. N. तहि स्व. B. 7 शब्दादिकं घटादिकं वा-टि. ' नास्ति 'च' A. P. H. E.