________________ 1.5.] . कल्पनालक्षणम् / स्वलक्षणं वाच्यं वाचकं च गृहीतं स्यात् / न च संकेतकालभावि दर्शनविषयत्वं वस्तुनः संप्रत्यस्ति / यथा हि संकेतकालभावि दर्शनम'द्यनिरुद्धम, तद्वत् तद्विषयत्वमपि' अर्थस्याच नास्ति। ततः पूर्वकालदष्टत्वमपश्यच्छोत्रज्ञानं न वाच्यवाचकभावनाहि / __ अनेनैव न्यायेन योगिज्ञानमपि सकलशब्दार्थावभासित्वेपि संकेतकालदृष्टत्वाग्रहणानिर्विकल्पकम् // भवतु रूपाद्यालम्बनमिन्द्रियज्ञानम्, वाचकस्याप्रतिभासाद् वाच्यस्यैव प्रतिभासादविकल्पकम् / यत्पुनरेतवयप्रतिभासीन्द्रियज्ञानं तद् द्वयप्रतिभासाद् विकल्पकं प्राप्तमित्यभिप्रेत्य चोदयति-श्रोत्रेति / तहिरक्षमायाम् / सर्वमिन्द्रियज्ञानमविकल्पकमिति न क्षम्यत एतदित्यर्थः / श्रोत्रज्ञानमभिलापसंसर्गयोग्यप्रतिभासं स्यादिति सम्बन्धः / किम्भूतं ? शब्दस्वलक्षणग्राहि। हेतुभावेनास्य विशेषणत्वात् शब्दस्वलक्षणग्राहित्वादित्यर्थः / शब्दग्राहिणोऽपि वाच्याग्रहणे कथं तथात्वमित्याह-शब्देति[23b] / चो यस्मात् / किञ्चिद् वाचकं किञ्चिद् वाच्यम् / यथा 'तरप्तमपौ घः[पाणिनि-१.१.२२] इत्यादि बुद्धिस्थम् / इतिस्तस्मात् / अस्तु तथाप्रतिभासं किमत इत्याह तथा चेति / तथा च सति तस्मिश्चोक्तप्रकारे सति / एवं चैतद् द्रष्टव्यम्यदैकेन तरप्तमपौ संज्ञिनावुच्चार्येते तदैव च कथञ्चिदन्येन 'घः' इति संज्ञोच्चार्यते / तदा तद्वितयमेकेन श्रोत्रज्ञानेन प्रतियतः पुंसः श्रोत्रधीविकल्पिका प्रसज्यतेति / कथं तर्हि नैष दोष इत्याह-सत्यपीति। चो यस्मात् तदेवेदं यन्मया संकेतकालत्वेन गृह्यमाणं तथा गृहीतं भवति / यद्येवमस्तु सकेतकालदृष्टत्वेन ग्रहणमित्याह-न चेति / चोऽवधारणे हेतौ वा। दर्शनविषयत्वमिति ब्रुवन् पूर्वदृष्टत्वशब्दस्यार्थमाह / कथं नास्तीत्याह- यथेति / हिर्यस्मादर्थे।। अर्थस्येति सम्प्रति दृश्यमानस्य / तद्भावे निगडाकर्षणन्यायेन प्राक्तनदर्शनस्यापि स्थितिः प्रसज्यतेति भावः। मा ग्रहीत संकेतकालदृष्टत्वं तयोर्गह्यमाणयोः संज्ञासंज्ञिभूतयोः शब्दयोस्तथापि कथं न वाच्यवाचकभावग्राहि तज्ज्ञानमित्याशङ्कयोपसंहरन्नाह–तत इति / यतः संकेतकालत्वेन गृह्यमाणं वाच्यं वाचकं च गृहीतं भवति ततः कारणात् श्रोत्रविज्ञानं न वाच्यवाचकभावग्राहि / भवतु तथागृह्यमाणस्य स्वलक्षणस्य तथात्वम् / किमत: ? एतत्पुनरेनं तथैव ग्रहीष्यतीत्याहपूर्वेति / हेतौ शतुर्विधानात् पूर्वकालदृष्टत्वाग्रहणादित्यर्थः / स्यादेतत्-संकेतदृष्टत्वेनापि न ग्रहीष्यतेऽर्थः शब्दो वा / अथ च विशिष्टवाचकवाचकत्वेन विशिष्टार्थवाचकत्वेन च ग्रहीष्यत इति / असदेतत। एवं हि अवतेदमभिप्रेतमयेन ज्ञानेन योऽर्थः संकेतकालोपलब्धो यच्छब्दसंसगिणा रूपेण नैकीक्रियते, न स तेन तच्छन्दवाच्यो गृह्यते। यथा गोज्ञानेन सङ्केतकालोपलब्धाश्वशब्दसंसर्गिणाऽश्वरूपेण सहकत्वेनाप्रतीयमानो गौ श्वशब्दवाच्यो गृह्यते / श्रोत्रज्ञानेन संकेतकालोपलब्धघशब्दसंसर्गिणा च रूपेण नकीक्रियते च तदा तरप्तमपाविति व्यापकानुपलब्धिः / तथा येन ज्ञानेन यः शब्दः . . . ग्रहणकाले-टि० .. श्रोत्रविज्ञानं-B.D. N. स्मर्यमाणसंकेतस्य-टि०