________________ [ 1.6.. प्रथमः प्रत्यक्षपरिच्छेदः। तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभाधनाहितविभ्रमं ज्ञानं प्रत्यक्षम् // 6 // तया कल्पनया कल्पनास्वभावेन रहितं शून्यं सज्ज्ञानं यदभ्रान्तं तत् प्रत्यक्षम् इति परेण सम्बन्धः। कल्पनापोढत्वाभ्रान्तत्वे परस्परसापेक्षे प्रत्यक्षलक्षणम्, न प्रत्येकमिति दर्शयितुं तया रहितं यदभ्रान्तं तत् प्रत्यक्षमिति लक्षणयोः परस्परसापेक्षयोः प्रत्यक्षविषयत्वं दशितमिति॥ सङ्कतकालदृष्टयदर्थसंसर्गिणा रूपेण नैक्रीक्रियते, न तेनासौ तदर्थवाचको गृह्यते। यथा गोशब्दज्ञानेन सङ्केतकालोपलब्धाश्वार्थसंसर्गिणाश्वशब्देन सहकत्वेनाप्रतीयमानो गोशब्दो नाश्वार्थवाचको गृह्यते। श्रोत्रज्ञानेन सङ्केतदृष्टतरप्तमबर्थसंसर्गिणा रूपेण नैकीक्रियते च तदा घशब्द इति सैव असिद्धिरनुभवेन निराकृता। वास्तवसम्बन्धनिराकरणाच्च व्याप्तिः सिद्धेति / यदा तु पूर्वदृष्टत्वेन ग्रहोऽस्ति तदा तज्ज्ञानमभिलापसंसृष्टार्थप्रतिभा सद् विकल्परूपमेवेति सर्वमवदातम् / श्रोत्रज्ञाने यथाऽभिलापसंसर्गयोग्यप्रतिभासत्वं चोदितं तथा योगिज्ञानेऽपि चोदयितुं शक्यमिति तत्राप्यममेव परिहारमतिदिशन्नाह–अनेनेति / यज्ज्ञानं सङ्केतकालविषयत्वं गृह्यमाणस्य न गृह्णाति, न तद् वाच्यवाचकभावग्राहीत्यनेन न्यायेन युक्त्या योगिज्ञानं वक्ष्यमाणलक्षणं सकलशब्दार्थावभासित्वे सत्यपि निर्विकल्पकम् / .. ननु चान्यस्य वाच्यवाचकभावग्राहिणो ज्ञानस्यास्तु निर्विकल्पकत्वम्, अस्य तु सर्वशब्दार्थग्राहिणः कथं तथात्वमित्याह-संकेतेति / तथाऽग्रहणमुक्तेन न्यायेन योगिनं प्रत्यपि पूर्वदर्शनविषयत्वस्यासत्त्वादिति भावः // तया रहितमित्याचायिं विवरणं व्याच[24a]ष्टे-तयति। नन विकल्पेऽपि विकल्पान्तरं नास्ति / ततस्तस्यापि कल्पनापोढत्वं किं न भवति? अथ कल्पनया रहितमिति यन्न विकल्प्यते इत्युच्यते। तदपि कल्पनापोढमित्यनेनैवाकारेण विकल्प्यत इति कथमेतदुच्यत इति पश्यन् कल्पनया रहितमित्यस्य विवक्षितमर्थमाह-कल्पनास्वभावेनेति / कल्पनायाः स्वभावोऽभिलापसंसर्गयोग्यप्रतिभासत्वम्, तेन / यथा विषाणी ककुद्मान प्रान्तेवालधिरिति विषाणादिमता(तो) विषाणादीन्येव गोत्वलिङ्गानि व्यपदिश्यन्ते / तद्वत् कल्पनाख्येन धर्मिणा धर्मोऽभिलापसंसर्गयोग्यप्रतिभासत्वाख्यो निद्दिष्ट इति दर्शयति / अत एव चाचार्यदिग्नागीयप्रत्यक्षलक्षणे कल्पनापोढत्वाख्ये यदुद्द्योतकरचोद्यमिहैव पूर्वमुपदर्शितं तत्खलु धर्मकीतिचोद्यसदशमिति स्थितम् / परेणेति परदेशस्थितेन तदनाहितविभ्रमं ज्ञानं प्रत्यक्षमित्यनेन / अभ्रान्तग्रहणस्यैव तद् विवरणमिति अभ्रान्तग्रहणमिह / दूरस्थितेन सम्बन्धकरणे किम्प्रयोजनमित्याह-कल्पनापोढ़ेति / मिलितयोरनयोस्तल्लक्षणत्वात् प्रत्यक्षलक्षणमित्येकवचनेन निर्देशः / इतिना दर्शनीयस्य रूपमाह / कथं परस्परसापेक्षतेत्याह-तया रहितं यदभ्रान्तं तत्प्रत्यक्ष व्यवहर्त्तव्यमिति शेषः / इतीत्यादिनैव चोपसंहरति / यस्मादेवमितिस्तस्मात् / 1 सूत्रेण-टि० / परेण सूत्रेण सं० B. 2 द्रष्टव्यमिति अध्याहार:-टि.