________________ :: प्रत्यक्षलक्षणम् / तिमिरम् अक्ष्णोविप्लवः / इन्द्रियगतमिदं विभ्रमकारणम् / आशुभ्रमणम् अलातादेः / मन्दं हि भ्रम्यमाणेऽलातादौ न चक्रभ्रान्तिरुत्पद्यते / तदर्थम् आशुग्रहणेन विशेष्यते भ्रमणम् / एतच्च विषयगतं विभ्रमकारणम् / नावा गमनं नौयानम् / गच्छन्त्यां नावि स्थितस्य गच्छवक्षादिभ्रान्तिरुत्पद्यते इति यानग्रहणम् / एतच्च बाह्याश्रयस्थित विभ्रमकारणम् / संक्षोभो वातपित्तश्लेष्मणाम् / वातादिष हि क्षोभं गतेषु ज्वलितस्त3. म्भादिभ्रान्तिरुत्पद्यते एतच्चाध्यात्मगतं विभ्रमकारणम् / सर्वैरेव च विभ्रमकारणरिन्द्रियविषयबाह्याध्यात्मिकाश्रयगतैरिन्द्रियमेव विकर्तव्यम् / अविकृते इन्द्रिये इन्द्रिय भ्रान्त्ययोगात् / एते संक्षोभपर्यन्ता आदयो येषां ते तथोक्ताः / आदिग्रहणेन काचकामलादय इन्द्रियस्था गृह्यन्ते। आशुनयनानयनादयो विषयस्थाः / आशुनयनानयने हि कार्यमाणेऽलाते ऽग्निवर्णदण्डाभासा भ्रान्तिर्भवति / हस्तियानादयो बाह्याश्रयस्थाः, गाढमर्मप्रहारादय आध्यात्मिकाश्रयस्था विभ्रमहेतवो गृह्यन्ते / / तैरनाहितो विभ्रमो यस्मिंस्तथाविधं ज्ञानं प्रत्यक्षम् // प्रत्यक्षविषयत्वं दर्शितमन्ते प्रत्यक्षग्रहणसामर्थ्यात् / / तिमिरमणविप्लवहेतुत्वाद् विप्लवः। इन्द्रियगतमिन्द्रियाश्रितम् / विभ्रमस्य भ्रान्तत्वस्य कारणं साक्षात् कारणत्वेन। अलातं विदग्धकाष्ठम् / आशुग्रहणस्य फलमाहमन्दम् इति / यद्यपि मन्दं भ्रम्यमाणस्यालातस्य विभ्रमकारणत्वादर्शनादाशु भ्रमणं लभ्यते, तथापि शास्त्रकृता स्वकीयवचनाकौशलपरिहारार्थमाशुग्रहणं कृतमित्यवसेयम् / पूर्वस्मादेतद्भेदेन कथमुक्तमित्याह-एतद् इति / चो यस्मादर्थे। आशुग्रहणेन नौयानमपि विशेषणीयम् / मन्दं हि गच्छन्त्यां नावि न गच्छवृक्षादिदर्शनं भवतीत्यनुभवसिद्धमेतत् / इतिहेतौ। एतत् कस्मात् पृथगुक्तमित्याह एतच्चेति / चो यस्मात् / संक्षोभ उपचयः / प्रकोप इति यावत् / स केषामित्याकाङक्षायामाह-वातेति / नासौ विभ्रमकारणमित्याशङकामपनुदन्नाह-वातादिषु-इति। हिर्यस्मात् / क्षोभं प्रकोपं गतेषु संक्षुब्धेष्विति यावत् / __स्यादेतत्-अस्तु तिमिरस्येन्द्रियोपघातहेतुकत्वाद् भ्रान्तज्ञानहेतुत्वम् / नौयानादीनां तु कथं सत्स्वपि तेषु तदवस्थत्वादिन्द्रियस्येत्याह-सर्वैरेवेति। इन्द्रियगतस्य तिमिरादेरिन्द्रियविकारत्वेन सम्मतस्याप्युपादानं दृष्टान्तार्थम् / तेनायमर्थ:-यथेन्द्रियगतं तिमिरादीन्द्रिय विकुर्वद् विभ्रमहेतुः, तथा अन्यैरपि तद्विकुर्वद्भिरेव विभ्रमहेतुभिर्भाव्यमिति / . कस्मात्पूनरमीभिरिन्द्रियविकारोऽवश्यकर्त्तव्य इत्याह-अविकृत इत्यादि / एतदुक्तं भवति / तद्विकारविकारित्वादाश्रयाश्चक्षुरादय इति / प्रयोग[24b]स्त्वेवं कर्तव्यः / यदि 2 मन्दं भ्रम्य A. मन्दं हि भ्राम्य C. D. B. N. .ज्वलितरूपस्त० BD 4 ०ध्यात्मिकं भ्रान्तिका BD.. ... .. . 'ज्ञानस्य-टि०; अविकृते इन्द्रिये भ्रान्त्ययोगात्-B 6 नयने कार्य BDN ७०लातादौ-A. P. H. N एतैर० BD..