________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.7. .... तदेवं लक्षणमाख्याय 'यैरिन्द्रियमेव द्रष्ट्र कल्पितं मानसप्रत्यक्षलक्षणे च दोष उद्भावितः, स्वसंवेदनं च नाभ्युपगतम्, योगिज्ञानं च; तेषां विप्रतिपत्तिनिरा करणार्थ प्रकारभेदं प्रत्यक्षस्य बर्शयन्नाह तत् चतुर्विधम् // 7 // तत् चतुर्विधमिति // इन्द्रियज्ञानम् // 8 // इन्द्रियस्य ज्ञानम् इन्द्रियज्ञानम्। इन्द्रियाश्रितं यत् तत् प्रत्यक्षम् / न्द्रियजभ्रमकारणं तदिन्द्रियं विकरोत्येव यथा तिमिरादि। इन्द्रियजभ्रमकारणं च नौयानादीति स्वभावहेतुः / एवंविधस्य ज्ञानस्य भ्रमरूपत्वं बाधवशादवसितमिन्द्रियान्वयव्यतिरेकानुविधानच्चेन्द्रियजत्वम् / तथाभूतविभ्रमकारणत्वं च नौयानादेः स्वान्वयव्यतिरेकानवि नात् सिद्धम् / व्याप्तिरपि तिमिरादौ दर्शिता। अयमेव प्रयोगो दर्पणादिष्वपीन्द्रियजभ्रमनिमित्तेषु द्रष्टव्यः / उपयुक्तकात्स्न्यं वाऽयं सर्वशब्दः प्रवर्तनीयः / एत इत्यादि विभ्रमहेतवो गृहान्त इत्यन्तं सुबोधम् / केवलं पर्यन्तोऽन्तो वाच्यः / काचोऽक्षिविकारहेतू रोगविशेषः। कामलोच(लोऽत्र) नयनवदनादिविकारकारणं व्याधिविशेष एवेति द्रष्टव्यम् / तैरनाहितो विभ्रमो यस्मिन्निति विगृह्णस्त्रिपदं बहुबीहिं दर्शयति / अनाहितो विभ्रमो यस्मिस्तत्तथेति प्रसाध्य तेषामनाहितविभ्रम इति षष्ठीतत्पुरुषः कार्यः / इदन्त्वर्थकथनमिति बोद्धव्यम् / यो हि तैरनाहितविभ्रमः स तेषां भवतीति / ज्ञानाधिकारेण. लक्षणविधानाल्लब्धं ज्ञानम्, तेन ज्ञानमित्यक्तम् // सम्प्रत्याचार्यस्यावान्तरप्रत्यक्षभेदव्युत्पादने निमित्तं दर्शयन्नाह-तदेवमिति / निपातसमुदायश्चायमुक्तेन प्रकारेणेत्यस्यार्थे वर्तते। यैरिति प्रत्येक योजनीयम् / यैः स्वयूथ्यैर्वेभाषिकः। यदि ज्ञानं द्रष्ट्र स्यात्, तस्याप्रतिघत्वात् व्यवहितमपि गृहणीयात् / ततः "चक्षुः पश्यति रूपाणि" इत्यादिवादिभिरिन्द्रियमेव द्रष्ट्र कल्पितम् / यैर्मीमांसकैराचार्यदिग्नागीये मानसप्रत्यक्षलक्षणे गहीतग्राहित्वलक्षणोऽप्रामाण्यनिमित्तं दोष उद्भावितः / लक्षणग्रहणस्योपलक्षणत्वात् मानसप्रत्यक्षाभ्युपगमेऽपि यो दोषोऽन्धबधिराद्यभावलक्षणः सोऽपि द्रष्टव्यः / यैश्चमीमांसकः कुमारिलमतानुसारभिर्नैयायिकवैशेषिकश्च स्वात्मनि क्रियाविरोधेन स्वसंवेदनं नाभ्युपगतम् / यैश्च चार्वाकमीमांसकोंगिन एव न सम्भवन्ति, कुतस्तेषां ज्ञानमिति वादिभिर्योगिज्ञानं च नाभ्युपगतमिति वर्तते। त्रयोऽपि चकारा वक्तव्यान्तरं समुच्चिन्वन्ति / तेषाममीषां तत्र तत्र या विमतिस्तनिराकरणार्थ प्रत्यक्षस्योक्तलक्षणस्य प्रकारो विशेषस्तस्य भेदं नानात्वम्, अवान्तरजातिभेदमिति यावत् / तदिति प्रत्यक्षं चतुर्विधं चतुष्प्रकारम् // तत्रकं तावदिन्द्रियज्ञानमुक्तं व्याचक्षाण आह–इन्द्रियस्येति / ज्ञायतेऽनेनेति ज्ञानम्, 'वैभाषिक:-टि० 2 निरासार्थम्-BCD