________________ मानसप्रत्यक्षम् / 57 1.9. ] - मानस'प्रत्यक्ष पर्यो दोष उद्भावितस्तं निराकर्तुं मानसप्रत्यक्षलक्षणमाहस्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् // 6 // इन्द्रियं च तज्ज्ञानं चेति कृत्वा शक्यमिन्द्रियज्ञानमिति वक्तुम्, तत्कथं विप्रतिपत्तिनिराकृतेत्याशङ्कामपाकर्तुम् इन्द्रियज्ञानमित्यत्राचार्यस्येन्द्रियस्य ज्ञानमिति षष्ठीतत्पुरुषो विवक्षित इति दर्शयतीन्द्रियस्य ज्ञानमिति / यदिन्द्रियेण जन्यते तदिन्द्रयस्य भवतीति भावः / ननु चेन्द्रियानुमानमपि कार्यप्रभवं भवतीन्द्रियस्य ज्ञानम् / ततस्तस्यापि प्रत्यक्षत्वं प्राप्तमित्याह---इन्द्रियाश्रितमिति / आश्रितं जन्यतया तस्मिन् सत्येव भावात् / न चेन्द्रियानु[25a]मानमिन्द्रियेण साक्षाज्जन्यते, येन तस्य प्रत्यक्षत्वं स्यादिति भावः / अनेकहेतुत्वेऽपि ज्ञानस्यन्द्रियेण व्यपदेशोऽसाधारणत्वात्तस्येति द्रष्टव्यम् / इन्द्रियस्य ज्ञानं प्रत्यक्षमिति कथयता नेन्द्रियस्य द्रष्टत्वमिति दर्शितम् / ततो विप्रतिपत्तिनिराकृता / ननु इन्द्रियज्ञानस्य द्रष्टुत्वे तस्याप्रतिघत्वाद् व्यवहितस्यापि ग्रहणं प्रसज्येतेति तैरुक्तो दोषः / स कथं परिहृतो येन विप्रतिपत्तिनिराकृतेति चेत् / अयमाशयः-न ज्ञानं गत्वा गत्वाऽर्थं गृह्णाति, येन गमनविबन्धाभावात्, व्यवहितमपि गृह्णीयात् / किन्तर्हि ? यदाकारमुत्पद्यते तद् गृह्णातीत्युच्यते / न चायोग्यदेशस्थोऽर्थस्तत्स्वरूपकोऽन्वयव्यतिरेकाभ्यां विज्ञातः। तत्कथं तस्य तेन ग्रह इति सुज्ञानमेतदिति किमत्रोपपत्त्याभिहितयेति ? इन्द्रियज्ञानं प्रत्यक्षमिन्द्रियादिसामग्रीजन्यज्ञानं प्रत्यक्षम्, एकस्य जनकत्वविरोधात् / नाज्ञानमित्यर्थात् / ..... एवं च दर्शयता वार्तिककारेण "यद्वेन्द्रियं प्रमाणं स्यात् तस्य वार्थेन संगतिः"[श्लोकवा० 4-60] इत्यादि वचनात्तस्यापि या प्रत्यक्षप्रमाणता मीमांसकादिभिरभ्युपगता सा निरस्ता वेदितव्या.। तथाहि-प्रापकं प्रमाणं भवेत् / नान्यत् / प्रापकत्वं च प्रवर्तकत्वेना[व्यवधानेन नान्यथा / * प्रवर्तकत्वं चाधिगमात्मकत्वेन, नान्यथा। न च तस्य तथात्वमस्ति / अधिगमोपगमेन प्रवर्तकत्वे च नैव व्यवधीयते / यतश्चाव्यवधानेन प्रवृत्तिः स एव प्रवर्तकत्वात् प्रमाणं युक्तम् / तच्च ज्ञानमेव। तदुक्तम्, “धीप्रमाणता, प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयव- स्तुनि" [प्रमाणवा० 1.5] इति / __ यद्वा प्रमायाः करणात् प्रमाणम् / प्रमा च नीलस्येयं न पीतस्येति विशिष्टेनवाधि. करणेनावच्छिन्ना प्रतीयत इति तत्करणं भवितुमर्हति / यत इयमव्यवधाना तादूप्येण व्यवस्था लभते / इन्द्रियार्थसन्निकर्षादिश्च नीलपीतादि........"स्य भेदव्यवस्थाङ्गम् / स्वभेदेन क्रियाभेदनिबन्धनं च करणं ततो ज्ञानात्मकमेव सारूप्यमधिगतिक्रियाभेदव्यवस्थाङ्गं प्रमाणं युज्यत इति / द्वयी चेयं विधाऽन्यत्राचार्येण विपञ्चितेति नेहोच्यते, प्राज्ञजनाधिकारेणास्य प्रकरणस्य प्रारम्भात् / दिङमात्र तुक्तमिति / मानसे च प्रत्य० B.D. 2 परैर्दोष० D / अस्पष्टम्-सं०