________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.9. स्व आत्मीयो विषय इन्द्रिय ज्ञानस्य तस्य अनन्तर:-न विद्यतेऽन्तरमस्येति / अन्तरं 3च व्यवधानं विशेषश्चोच्यते। ततश्चान्तरे प्रतिषिद्ध समानजातीयो द्वितीयक्षणभाव्युपादेयक्षण इन्द्रियविज्ञानविषयस्य गृह्यते। तथा च सति इन्द्रिय ज्ञानविषयक्षणादुत्तरक्षण एकसंतानान्तर्भूतो गृहीतः / स सहकारी यस्येन्द्रियज्ञानस्य" तत् तथोक्तम् / द्विविधश्च सहकारीपरस्परोपकारी एककार्यकारी च / इह च क्षणिके वस्तुन्यतिशयाधानाध्योगादेककार्यकारित्वेन सहकारी गृह्यते। ननु चतुर्विधप्रत्यक्षाभिघाने निमित्तमुक्तमेव धर्मोत्तरेण तत्कथं तदेव मानसेत्यादिना पुनराचष्टे / अथाचार्यस्य चतुष्टयाभिधाने निमित्तं यदासीत् बुद्धिस्थं तत्प्रागुक्तम् , तदेव तु यथायोगं प्रत्यक्षव्यक्तिविशेषाभिधानेऽभिधानीयमिति / तर्हि यैरिन्द्रियं द्रष्ट्र कल्पितं तन्निराक- . रणार्थमाह-इन्द्रियज्ञानमिति, तथाऽन्यत्रापि स्वसंवेदनादौ तत्तन्निमित्तमनेन किन्नोक्तम् ? तदत्रापि मानसं व्याख्यातुमाहेति वक्तुं युक्तमिति / सत्यमेतत् / केवलं मानसस्य प्रत्यक्षस्याशक्यनिश्चयत्वेनाव्यवहाराङ्गत्वात्परोक्तदोषनिराकरणमात्रमेवास्य लक्षणाख्याते निमित्तं नान्य-. दिति प्रतिपादयितुमुक्तमेव निमित्तमनूदितमिति न किञ्चिदवद्यम् / अथेन्द्रियज्ञानस्यापि लक्षण[25b]मन्येषामिव किं नोक्तम् ? नोक्तम् / तल्लक्षणविप्रतिपत्त्यभावात् / इन्द्रियज्ञानमिति निगदेनैव व्याख्यातत्वाच्चेति / स्यान्मतम् / अभिमतं चतुर्विधं प्रत्यक्षं दर्शयितव्यम् / तच्चैकदा वक्तुमशक्यत्वात्, क्रमेण वचनीयम्। क्रमश्चबंविधोऽस्त्वन्यादृशो वा किमत्रादरेणेति इन्द्रियज्ञानादिरीदृशः क्रमः कृतः। अथान्यदप्यस्य निमित्तमस्तीति ? अन्यदप्यस्तीत्युच्यते / तथाहि सर्वस्य सर्वव्यवहाराङ्गमिन्द्रियज्ञानमिति तदादितोऽभिहितम् / तेनैवेन्द्रियज्ञानेन तथाभूतेन मानसं जन्यत इति तदनु मानसं व्याख्यातम् / तस्य पश्चात्प्रत्यात्मवेद्यतयाऽस्तित्वेन शक्यनिश्चयतया च स्वसंवेदनमुदितम् / ततः सर्वज्ञज्ञानस्य सामग्रीमात्रप्रदर्शनतयाऽन्तिमपुरुषार्थतया चान्ते योगिज्ञानमुपदर्शितमिति / स्व इत्यादिना स्वविषयेत्यादिलक्षणं व्याचष्टे / तच्च तत्तथोक्तमित्येतदन्तं सुगमम् / नन्वनुपकारकस्य सहकारित्वेऽतिप्रसङ्गाद् उपकारिणा सहकारिणा भाव्यम् / समसमययोश्चोपकार्योपकारकभावाभावात् कथमसौ विषयक्षणस्तस्य सहकारीत्याशङक्याह-द्विविधश्चे ति / चो यस्मात् / द्विविधो द्विप्रकारः सहकरणशीलो भावः / कथं द्वैविध्यमित्याहपरस्परेत्यादि। परस्परोपकारितया च सहकारित्वमेकत्वाध्यवसायाधीनं सन्तानगतममुख्यम् / मुख्यं तु एकार्थक्रियाकारित्वेन। यदि द्वैविध्येऽपि प्राक्तनस्य ग्रहणं तदा तदवस्थो दोष इत्याह-इहेति / इह मानसक्रियायाम् / चोऽवधारणे। एकार्थक्रियाकारित्वेनेत्यस्मात् परो द्रष्टव्यः / सहकारी हि गृह्यते विषयक्षण इति प्रकरणादवसेयम् / पूर्व कस्मान् न गृह्यत 1 इन्द्रियविज्ञान B 2 ०स्येति अनन्तरः B.D. 3 'च' नास्ति-C 4 इन्द्रियविज्ञान-C 5 इन्द्रियविज्ञान A. B. D. P. H. E. N