________________ 1. 9. ] . मानसप्रत्यक्षलक्षणम् / विषयविज्ञानाभ्यां हि मनोविज्ञानमेकं क्रियते यतस्तदनयोः परस्पर सहकारित्वम् / ४ईदृशेनेन्द्रियविज्ञानेनाल'म्बनभूतेनापि योगिज्ञानं जन्यते / तन्निरासार्थ समनन्तरप्रत्ययग्रहणं कृतम्। समश्चासौ ज्ञानत्वेन, अनन्तरश्चासौ अव्यवहितत्वेन, स चासौ प्रत्ययश्च हेतुत्वात् समनन्तरप्रत्ययः, तेन जनितम् / इत्याह-क्षणिक इति / हेतुभावेन विशेषणम् / अथ यदि वस्तुनः क्षणिकत्वेनातिशयाधानासम्भवात् परस्परोपकारित्वेन न सहकारी गृह्यते द्विविधश्च सहकारीत्यनन्तरमुदितमनेन ब्याहन्येत / हेतुबिन्दुश्च विरुध्येतेति सर्वमसमञ्जसम् / न / अभिप्रायापरिज्ञानात् / तथा हि क्षणिके वस्तुनीति धारयाऽप्रवाहिणि सजातीयाप्रसवधर्मिण्यन्तिमे मानसोत्पादकतया:भिमत इन्द्रियज्ञाननाम्नि निरोधोन्मुख इत्यभिप्रेतम् / न त्वक्षणिकव्यावृत्त्या क्षणिकपदाभिलाप्येऽवस्तुमात्रव्यावृत्त्या च वस्तुमात्र इति / / एतदुक्तं भवति / यदीदं मानसोपजननोन्मुखमिन्द्रियज्ञानमेकजातीयप्रवाहवाहि स्यात्तदा सन्तानोपकारद्वारकातिशयाधायकत्वे विषयोऽस्य सहकारीति कल्प्येत / केवलमिदमपेतसजातीयप्रसवशक्तिकं सन्तानवर्तीति कथमस्य विषयस्तथा सहकारी कल्प्येतेति / ननु कि तदेकं यत्कुर्वतोरेतयोस्तथासहकारित्वमुच्यत इत्याह-विषयेति / हिरवधारणे / यतो यस्मादाभ्यामेव तदेकं क्रियते, तस्मात् तदित्ययं तस्मादित्यस्मिन्नर्थे / अन्योन्यस्य सहकारित्वमेकार्थक्रियाकारित्वेनेति प्रकरणात् / ईदृशेनेत्यादिना समनन्तरप्रत्ययग्रहणस्य व्यवच्छेदं दर्शयति / ईदृशेन स्वविषयानन्तरविषयग्रह[26a]णसहकारिणा / आलम्ब्यत इति 'आलम्बनभूतं रूपं यस्य तेन ग्राह्यस्वभावेन सता जन्यत इत्यर्थः। तस्य योगिज्ञानस्य निरासार्थ मानसत्वनिराकरणार्थम् / एवञ्च व्याचक्षाणेन "समनन्तरप्रत्ययग्रहणमन्धबधिराद्यभावप्रसङ्गनिराकरणार्थमिति” यदन्येन व्याख्यातम् तदपहस्तितम् / इन्द्रियज्ञानग्रहणेनैव तत्प्रसङ्गस्य निराकृतत्वादिति / ___समश्चेत्यादिना समनन्तरप्रत्ययशब्दस्य विग्रहमर्थं चाह / हेत्वर्थः प्रत्ययार्थः / शकन्ध्वादिपाठाच्च न दीर्घत्वम् / यदि नामैवं व्युत्पत्तिस्तथापि प्राक्तनमेव विज्ञानमुपादानभूतमागमे तथा रूढं नान्यत्। तदुक्तमभिधर्मकोशे-"चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः" [2.62] इति / सिद्धान्तप्रसिद्धया चामुया संज्ञया व्यवहरताऽऽचार्येण सिद्धान्तप्रसिद्धत्वमस्य दर्शितम् / 'भ्यां मनो D. B. २०नयोन परस्प० A.C. P. H. E. N. 3 परस्परस्य सह B.D. 4 स्वविषयानन्तरेत्यादिना-टि० 'आलम्बनप्रत्ययभूतेनापि A BCDP H EN. यदा योगिना परस्यैवंविधज्ञानमालम्ब्यते तदालम्बनभूतेन तेन च योगिज्ञानं जन्यते इति-टि० अपिशब्दो भिन्नक्रमेयोगिज्ञानमपि इति-टि० * बौद्धानां मते समनन्तरप्रत्ययेति उपादानकारणमुच्यते-टि० ' नास्ति D.B. ९३चाव्यव० D. B.