________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.9. मनोविज्ञानं तदनेनैकसन्तानान्तर्भूतयोरेवेन्द्रिय 'ज्ञान-मनोविज्ञानयोर्जन्यजनकभावे प्रत्यक्षमित्युक्तं भवति / ततो योगिज्ञानं परसंतानवति निरस्तम् / ननु किं कृतं समनन्तरप्रत्ययग्रहणेन येन योगिज्ञानस्य तथात्वेन निरास इत्याह-तदिति / यस्मात्समनन्तरप्रत्ययरूपेणेन्द्रियज्ञानेन यज्जनितं तन्मानसं तत्तस्मात्कारणादनेन समनन्तरप्रत्ययग्रहणेनैकसन्तानान्तर्भतयोरेकसन्ततिपतितयोरेव जन्यजनकभावे सति मनोविज्ञानमिति / साक्षादिन्द्रियाजन्यतया मनोमात्राश्रितत्वान्मानसमेवोक्तम् / आगमेऽपि मनःशब्देनैतदेवोच्यत इति प्रदर्शनार्थं चैवमभिधानं मन्तव्यम् / तथापि कथं योगिज्ञानं तथात्वेन निरस्तमित्याहतत इति / यस्मादुपादानोपादेयभूतयोर्ग्रहणं भिन्नसन्तानवर्तिनोश्चोपादानोपादेयभावाभाव. स्तस्माद् योगिज्ञानं निरस्तं मानसत्वेन प्रतिक्षिप्तम् / यदि पुनरिन्द्रियज्ञानेन जनितमित्येताबदुच्येत तदाऽऽलम्बनभूतेनापि तेनादौ जन्यत इति निरस्तं न स्यादिति भावः / स्यादेतत्-यद्येतदर्थ समनन्तरप्रत्ययग्रहणं तर्हि नितरां न कर्त्तव्यम् / स्वविषयानन्तर-. विषयक्षणसहकारिणेत्यनेनैव योगिज्ञानस्य निरस्तत्वात् / न हि तदिन्द्रियज्ञानं योगिज्ञाने कर्तव्ये स्वविषयानन्तरविषयक्षणसहकारीति / अथोच्यते-यदेन्द्रियज्ञानं योगिज्ञानं जनयति तदा स्वोपादेयमपि ज्ञानं जनयत्येव। ततः स्वसन्ततिपतितजन्यक्षणापेक्षया तद् भवति स्वविषयानन्तरविषयक्षणसहकारीत्यस्ति तज्जनितस्य तस्य मानसत्वलक्षणमिति / अहो शब्दार्थव्यवस्थापनकौशलम् ? यदेव हि जन्यतया प्रकृतं तदपेक्षमेव सहकारिणः सहकारित्वं चिन्तनीयम् / न तु यत्किञ्चिदपेक्षम / न च तदेव योगिज्ञानं प्रति तत् सहकारि तदिन्द्रियज्ञानं येन तथात्वमस्योच्यमानं शोभेत। अथ तत् सहकारि तद् वस्तुवृत्त्या तदिन्द्रियज्ञानम् / तत् किम् तदपेक्षया चिन्तयेति चेत् / यद्येवं कृतेऽपि समनन्तरप्रत्ययग्रहणे योगिज्ञानं निरसितुमशक्यं तथापि यथा तदिन्द्रियज्ञानं स्वोपादेयज्ञानापेक्षं स्वविषयानन्तरविषयसहकारि तथा तदेवापेक्ष्य समनन्तरप्रत्ययोऽप्यदो भ[26b]वत्येव / ततस्तथाभूतेन तेन जन्यमानस्य योगिज्ञानस्य कथं तथात्वेन निरासः / ननु न तदपेक्षं तस्य समनन्तरप्रत्ययत्वम् / हन्त तत्सहकारित्वमपि किमस्य तदपेक्षमस्ति ? अथ समनन्तरप्रत्ययत्वं प्रकृतजन्यापेक्षं ग्राह्यम् / न तु वास्तवं रूपमुपादेयं फलाभावेन तस्यानुवाद्यताऽनुपपत्तेः / अन्यथा समस्तवास्तवरूपानुवाद्यताप्रसं[गा] दिति चेत् / समानमिदं स्वविषयानन्तरविषयक्षणसहकारिग्रहणेऽपि / न च राजशासनसमानं किञ्चिदुत्पश्यामो येन समनन्तरप्रत्ययजन्यत्वमेव प्रकृतजन्यापेक्षमिह ग्राह्यम् , न तु स्वविषयानन्तरविषयक्षणसहकारित्वमिति कल्पनीयमिति / अत्रोच्यते। यदा-योगी इन्द्रियज्ञानं तत्सहभुवं चार्थक्षणं च कुतश्चित्कारणादिदृक्षमाणो योगिज्ञानेन तवयमपि पश्यति तदा तेनेन्द्रियज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद् योगिज्ञानं जन्यत इति असति समनन्तरप्रत्ययग्रहणे मानसप्रत्यक्षं समासज्येत / ततस्तन्निवृत्त्यर्थं कर्त्तव्यमेव समनन्तरप्रत्ययग्रहणम् / एवंविधमेव च योगिज्ञानमभिप्रेत्येदशेनेत्यभिहितं धर्मोत्तरेणेति सर्वमवदातम् / 'न्द्रियविज्ञान-C. मनोज्ञान A. B. P. H. E. क्षमुक्तं-B.