________________ 1.9.]. मानसप्रत्यक्षलक्षणम् / यदा चेन्द्रियज्ञानविषयादन्यो विषयो मनोविज्ञानस्य तदा गृहीतग्रहणादासञ्जितोऽप्रामाण्यदोषो निरस्तः / यदा चेन्द्रिय विज्ञानविषयोपादेयभूतः क्षणो गृहीतः, तदेन्द्रियज्ञानेनागृहीतस्य विषयान्तरस्य ग्रहणादन्धबधिराद्यभावदोषप्रसंगो५ निरस्तः / - सम्प्रति यथा गृहीतग्राहित्वद्वारको दोषः परस्य परिह्रियते तथा दर्शयन्नाह यदा चेति / चो व्यक्तमेतदित्यस्मिन्नर्थे / यदैवं तदा निरस्तः / इन्द्रियज्ञानविषयादन्योऽस्य विषय इत्येतदेव कुतो येनासौ निरस्तो भवति इत्याशङक्याह—यदा चेति / चोऽवधारणे / इन्द्रियविज्ञानविषयोपादेयभूत इत्यस्मात्परो द्रष्टव्यः / इन्द्रियज्ञानस्य विषयो यस्तस्योपादेयभूतो यः क्षणः स गृहीत इन्द्रियज्ञानस्य मानसोपजनने सहकारिकारणत्वेन स्वीकृतस्तदेतीहैवच्छेदः कर्त्तव्यः। एवं ब्रुवतेदमाकूतम्-जनकविशेषस्य विषयत्वान्मानसप्रत्यक्षस्य विषयेण भवता जनकेनावश्यभाव्यम् / जनकश्चेन्द्रियज्ञानसहभूः क्षणस्तस्येति / सोऽस्येन्द्रियज्ञानविषयात्प्राक्तनार्थक्षणादन्यो विषय इति / अनेन च स्वविषयानन्तरविषयक्षणसहकारिग्रहणस्योपयोगो दर्शितः। अथेत्थं गृहीतग्राहित्वादप्रामाण्यप्रसङ्गो निराक्रियताम् / अन्धबधिराद्यभावदोषप्रसंगस्तु कथंकारं निराक्रियतेत्याशङक्याह-इन्द्रियज्ञानेनेति / अमुनाऽगृहीतस्य विषयान्तरस्य ग्रहणान्मानसेनेति प्रकरणात् / तस्माद् हेतोरिन्द्रियज्ञानेनागृहीतं मानसेन गृह्यत इति दर्शयता चानेन यस्यैवेन्द्रियमस्ति तस्यैव तेनेन्द्रियज्ञानेन सहभूविषयक्षणसहकारिणा जनितत्वान्मानसं प्रत्यक्षम्। तेनागृहीतं [त]त्सहभुवं विषयक्षणं गृह्णाति / यस्य पुनः पुंसोऽर्थविषयमिन्द्रियज्ञानमेव नास्ति तस्य कथं मानसमुत्पद्यत, गृह्णीयाद् वा तं विषयक्षणमिति दर्शितम् / अतोऽन्धबधिराद्यभावदोषप्रसङ्गो निरस्त इति / अनेनेन्द्रियज्ञानग्रहणस्य स्वविषयानन्तरविषयक्षणसहकारिसचिवस्योपयोगो दर्शितः। केवलेपि ज्ञानेनेति ग्रहणे [स्व][27a]विषयानन्तरविषयक्षणसहकारिणेतिविशेषणबलाद् यदि नामेन्द्रियज्ञानेनेति लभ्यते तथापि प्रतिपत्तिगौरवपरिहारार्थमिन्द्रियग्रहणं कृतमित्यवसेयम् / अन्धबधिरादीत्यत्रादिग्रहणात्काप्ति(कुष्ठि)रोगिणो ग्रहणम् / तस्यापि मानसेन स्पर्शज्ञानात् / इह शान्तभद्रेण सौत्रान्तिकानां मतं दर्शयता “पूर्व चक्षुरूपे चक्षुर्विज्ञानं ततस्तेनेन्द्रियविज्ञानेन सहजक्षणसहकारिणा तृतीयस्मिन् क्षणे मानसप्रत्यक्षं जन्यते” इति व्याख्यातम् / 'अत्र परस्यायमाशयः-मनोविज्ञानमिन्द्रियसव्यपेक्षम् / अथ चेन्द्रियविज्ञानं(ना)दन्यो विषयस्तस्य / ततोऽन्धबधिराद्यभावो व्यवहितस्य नीलादेर्ग्रहणं च प्राप्नोतीत्याह यदेत्यादि / अयमर्थ:-यस्मादिन्द्रियविज्ञानविषयोपादेयभूतः क्षण एको गृहीतक्षणो न भवत्यस्य विषय., अन्धबधिरादेश्च नेन्द्रियज्ञानविषयसहकारि विद्यते तेन तेषां न मनोविज्ञानं भवतीत्यर्थः-टि. 2 कल्पितः-टि० 3 .न्द्रियज्ञान A. B.C. P. H. E.N. 4 ०भूतः क्षण एको गृहीतः D. 5 प्रसङ्गोऽपि निर० D.