________________ 62 प्रथमः प्रत्यक्षपरिच्छेदः / [ 1. 9. एतच्च मनोविज्ञानमुपरतव्यापारे चक्षुषि प्रत्यक्षमिष्यते / व्यापारवति तु चक्षुषि यद्रूपज्ञानं तत्सर्व चक्षुराश्रितमेव / इतरथा चक्षराश्रितत्वानुपपत्तिः कस्यचिदपि' विज्ञानस्य / तदवमन्यमान आह-एतच्चेति / चोऽवधारणे। उपरतव्यापार इत्यस्यानन्तरं द्रष्टव्यः / चक्षुषो व्याप्रियमाणावस्था प्रणिधानमेव। एतन्मनोविज्ञानं प्रमाणं प्रमाणत्वेनोपगतमुपरतव्यापार एव चक्षुषि भवतीतीष्यत इति समुदायार्थो द्रष्टव्यः / यदि प्रणिहिते नयने मनोज्ञानं न जन्यते. तर्हि किं नाम जायत इत्याह-व्यापारेति / तुनिर्व्यापारावस्थाया व्यापारवतीमवस्थां भिनत्ति / रूपज्ञानमिति वास्तवानुवादो न पुनरन्यज्ञानसम्भवेन तद्वयवच्छेदार्थम् / यद्वा रूपशब्दः स्वभाववचनस्तेन यत्स्वभावज्ञानमित्यर्थः / सर्वग्रहणेन व्याप्तिमाह। चक्षुराश्रितं चक्षुर्जन्य चक्षुर्विज्ञानमिति यावत् / उपपत्तिमाह-इतरथेति / ननु व्यापारवत्यपि चक्षुषि मानसोत्पत्तौ न चक्षुराश्रितत्वानुपपत्तिरादिमस्यैव ज्ञानस्य चक्षुराश्रितत्वोपपत्तेः। सत्यम् / केवलम[यम]भिप्रायः-यदपि तदाद्यं चक्षुर्विज्ञानं तदपि चक्षुरन्वयव्यतिरेकेऽ(का)नुविधानादेव तदाश्रितं व्यवस्थापनीयम् / सत्यपि तदन्वयव्यतिरेकानुविधाने यदि कस्यचिन्मानसत्वं तदा चक्षुरन्वयव्यतिरेको चक्षुराश्रितत्वव्यवस्थाया अनङ्गमित्याद्येऽपि तद्व्यवस्था न स्यादिति साधीयान् प्रसङ्गः। स्यादेतत्-किमेतन्मानसं चक्षुर्विज्ञानेनैव रूपविषये जन्यते किं वा रसनादिज्ञानेनापि रसादिविषय इति ? किं चातः ? यदि रूप एव तदा २"द्विविधज्ञानविज्ञेयाः पञ्च बाह्यविषयाः' इत्यागमो विरुद्धचेत / अथ समस्तरूपादिविषयमिष्यते तदा शब्दविषयत्वेन तस्यासम्भवः। नहि रसादिरिव ताल्वादिजन्मा शब्द: प्रवाहवाही, येन श्रोत्रेन्द्रियज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तत्र मानसं जन्यतेति। उच्यते-रूपादिपञ्चकविषयमेतत् , न तु रूपमात्रविषयम् / तदाहाचार्यः-इन्द्रियज्ञानेन, न तु चक्षुर्विज्ञानेनेति / यत्पुनरवादीद् भगवान्"द्वाभ्यां भिक्षवो रूपं गृह्यते, चक्षुर्विज्ञानेन तदाकृष्टेन च मनसेति" तद्रूपस्य ग्रहणप्रसङ्गेनोक्तम्, न तु रूपमेव द्विधा गृह्यत इति विवक्षितम् / ननक्तं न तस्य शब्दविषयत्वेन सम्भवस्तत्कथमेवमभ्युपगमः ? सत्यमेतत् / केवलं यदाऽभिहन्यमानं घण्टादि रणति तदा तदुक्तः (त्थः) शब्दः कियन्तं कालं सन्तानेन प्रवहतीति श्रोत्रज्ञानेन स्वविषयानन्तरविषयक्षणसहकारिणा तद्विषयं मानसं जन्यते। एतावताऽपि द्विविधज्ञानवेद्यत्ववचनं चरितार्थम् / तदुक्तमभिधर्मकोशे-"रूपादिजात्यभिसम्बन्धिवचनाद्" इति / अस्यार्थ:-रूपादिजात्यभिसन्धिना तदुक्तं भगवता, न तु [27b]सर्वरूपादिव्यक्त्यभिप्रायेणेति / इह पूर्वैः- "बाह्यालम्बनमेवंविधं मनोविज्ञानमस्तीति कुतोऽवसेयम्" इत्याशङक्य "तदभावे तबलोत्पन्नानां विकल्पानामभावाद् रूपादौ विषये व्यवहाराभावप्रसङ्गः स्याद्" इत्युक्तम् / "चक्षुरादिविज्ञानेनानुभूतत्वान्न विकल्पाभाव" इति चाशङक्याभिहितम्-'देवदत्तेनापि १०पि ज्ञानस्य B.D. 2 द्रष्टव्योऽभिधर्मकोष:-"पञ्च बाह्या द्विविज्ञेयाः"-१.४८.