________________ मानसप्रत्यक्षलक्षणम् / - एतच्च सिद्धान्तप्रसिद्ध मानसं प्रत्यक्षम् / न त्वस्य प्रसाधकमस्ति प्रमाणम् / एवंजातीयकं तद् यदि स्यात् न कश्चिद्दोषः स्यादिति वक्तुं लक्षणमाख्यातमस्येति // दष्टे यज्ञदत्तस्यापि विकल्पप्रसङ्गः।" "सन्तानभेदान भविष्यति" इति च पुनराशडक्य "अत्रापि सन्तानभेदादेव विकल्पो न प्राप्नोति, यत इहापीन्द्रियाश्रयभेदादेव सन्तानभेदो युगपत्प्रवृत्तेश्च / दीर्घशष्कुलीभक्षणादौ हि युगपज्ज्ञानप्रवृत्तिर्दृश्यते / न च सन्तानस्यैक्ये युगपत्प्रवृत्ति ाय्या। तस्माद् रूपादिविकल्पाभावो मा भूदित्यवश्यमविकल्पकं मनोविज्ञानमभ्युपेयम् / एतेन निश्चय स्मरणाभावप्रसङ्गोऽपि ढोकनीयः / निर्विकल्पकं मनोविज्ञानं यदि नास्त्येव तदा योगिज्ञानाभावप्रसङ्गः / अस्त्येव निर्विकल्पकं मनोज्ञानं किन्त्विन्द्रियज्ञानपृष्ठभावि नास्तीति चेत् / सति सम्भवे तस्याप्यस्तित्वे को विरोधः / न ह्यत्र बाधकं प्रमाणं दृश्यते, येन तन्नास्तीति स्यात् / अस्तित्वे चोक्तं प्रमाणं त[स्मा] दस्तीन्द्रियज्ञानपृष्ठभावि मनोज्ञानं निर्विकल्पकम्" इत्येवमाद्यभिहितम् / तदेतत्तदीयं कदलीगर्भनिःसारं मन्यमानः प्राह-एतच्चेति। चोऽवधारणे / सिद्धान्तप्रसिद्धमित्यतः परो द्रष्टव्यः / एतदेव व्यतिरेकमुखेण द्रढयति न त्वस्येति / तुरवधारयति भिनत्ति वा / प्रवाहानारम्भकस्यास्य [ज्ञानात्मतया स्वसंवेदनरूपत्वेऽप्यसंविदितकल्पत्वादनुभवगम्य [मिदं] यथा चक्षुरादिज्ञानमिति दर्शयितुमशक्यत्वान्नास्य प्रसाधकं निश्चायकं प्रमाणमस्ति / ननु तैर्दर्शितमेव विकल्पाभावप्रसङ्गः स्यादित्यादिना प्रसङ्गमुखेन प्रमाणं विकल्पोदयादिति तत्किमुच्यते न त्वस्य प्रसाधकमस्ति प्रमाणमिति / अयमस्याशयः-सत्यमुक्तमतार्किकीयं तु तत् / तथाहि यत् तावदुक्तमिन्द्रियाश्रयभेदाद युगपत्प्रवृत्तेश्च सन्तानभेदोऽस्ति / न च सन्तानभेदेऽन्यानुभूतेऽन्यविकल्पो युक्त इति / तदवाच्यम् / यदीन्द्रियाश्रयभेदाद् युगपत्प्रवृत्तेश्च सन्तानभेदस्तभेदे च न कार्यकारणभावः, तदा स्वापादुत्थितमात्रस्य पुंसश्चक्षुर्विज्ञानं .......................नोत्पद्येत। तत् खलपजायमानं मनोज्ञानाद् वा प्राचीनादुत्पद्येत, इन्द्रियज्ञानाद् वा। न तावदिन्द्रियज्ञानात्तस्य पूर्वमभावात् , नापि जागरावस्थाभावीन्द्रिज्ञानात् / तस्य चिरनिरुद्धत्वात् / न च चिरातीतं कारणमिष्यते। अथैवं भिन्नसन्तानैरेव विकल्पितैर्विकल्पोदयोऽस्त्येव न तु निर्विकल्पाद् विकल्पोदय इति चेत् / सन्तानभेदेऽपि जन्यजनकभावे निर्विकल्पादपि विकल्पोदयस्य को निषेद्धा। न चेन्द्रियाश्रयभेदाद् युगपत् प्रवृत्तेश्च सन्तानभेदो युज्यते / परस्परपरोक्षतादिप्रसंगात् / तस्मात्प्रभूतमल्पं वा सदृशादेव कारणाज्जायते / न तु प्रभूतस्योदयमात्रेण सन्तानभेदोऽभ्युपेतव्यः / यथाऽग्निकणिकायाः [28a]प्रभाप्रतानवती प्रदीपशिखा जायमाना न सन्तानभेदमात्मन्यावहति / यत्पूनर्योगिज्ञानस्य तथात्वेऽपीदानीं मनोज्ञानं निर्विकल्पकं नाभ्युपेयते तद् यादृश्याः सामग्र्यास्तदुद्भवो यदाकारञ्च तत् , तत्सामग्र्यभावात्तदाकारस्य च मनोविज्ञानस्य निर्विकल्पस्यासंवेदनादिति / किमत्रादरेणेति / ननु च यद्यस्य प्रसाधकं प्रमाणं नास्ति किमर्थं तर्हि प्रत्यक्षप्रकरण उपन्यास इत्याशङक्याहएवमिति / एवंजातीयकमेवंप्रकारवत् / एवम्प्रकारलक्षणकथनस्यैव / किम्प्रयोजनमिति चेत् / सूत्रकारस्य सिद्धान्तप्रसिद्धमानसाभ्युपगमे प्रसक्तचोद्यनिराकरणम् यद्यस्ति मानसं प्रत्यक्षमेवं तस्य लक्षणमिति // 1 पङिक्तबाह्यं लिखितः पाठो न पठ्यतेऽस्पष्टत्वात्-सं०