________________ प्रथमः प्रत्यक्षपरिच्छेदः / [1.10: इ. संवेदनमाख्यातुमाह सर्वचित्तचैत्तानामात्मसंवेदनम् // 10 // सर्वचित्तेत्यादि। चित्तम् अर्थमात्र प्राहि / चैता विशेषावस्थाग्राहिणः सुखादयः। सर्वे च ते चित्तचत्ताश्च सर्वचित्तचैत्ताः। सुखादय एव स्फुटानुभवत्वात् स्वसंविदिताः, नान्या चित्तावस्थेत्येतदाशङ्कानिवृत्त्यर्थं सर्वग्रहणं कृतम् / नास्ति सा काचित् चित्तावस्था यस्यामात्मनः संवेदनं न प्रत्यक्षं स्यात् / येन हि रूपेणात्मा वेद्यते तद्रूपमात्मसंवेदनं प्रत्यक्षम् / वैभाषिकप्रक्रियया यदाचार्येण चित्तचत्तौ भेदेनोक्तौ तयोरर्थमाह-चित्तमर्थमात्रग्राहि वस्तुमात्रग्राहि / "तत्रार्थदृष्टिविज्ञानम्" इति वचनात् / चैत्ता विशेषावस्थाग्राहिणो विशेषावस्थास्वीकारो विशेषावस्थाकारा इति यावत् / तद्विशेषे तु चैतसा इति वचनात्। क एवं रूपा इत्याह-सुखादय इति / सर्वे चेति विगृह्णन् पूर्व चित्तानि च चैत्ताश्चेति समस्य पश्चात्सर्वशब्देन समास इति दर्शयति / सुखेत्यादिना सर्वग्रहणस्य फलमाह-स्फुटो व्यक्तो.. ऽनुभवः प्रकाशो यस्य तस्य भावस्तस्मात् / सर्वग्रहणे सति कीदृशोऽर्थो भवति, येनाशङ्का निवर्त्यत इत्याह-नास्तीति। काचिदिति भ्रान्ता वाऽभ्रान्ता वेत्यर्थः / / ननु ज्ञानस्य संवेद्यात्मनः किमन्यद् रूपान्तरं यत्स्वसंवेदनं प्रत्यक्षं स्यादित्याशङक्याहयेन हीति / हिर्यस्मादर्थे / अथ यदनुभूयते तदन्येनैव यथा घटादि। तत्कथमात्मनैवात्मनः संवेदनमिति चेत् / : न। योग्यतायास्तथाव्यवहारात् / अस्ति ज्ञानस्य सा योग्यता जडव्यावृत्तता ज्योतीरूपता यया स्वप्रकाशे प्रकाशान्तरं नापेक्षते / यथा प्रदीपः प्रकाशस्वाभाव्यादात्मानं स्वयमेव प्रकाशयति, न तु प्रदीपान्तरमपेक्षत इति / ननु किं घटादिदृष्टान्तबलात्प्रकाशान्तरप्रकाश्यता ज्ञानस्यास्ताम्, आहोस्वित् प्रदीपदृष्टान्तसामर्थ्यात् प्रकाशान्तरनिरपेक्षतया स्वप्रकाशता ? अत्रोच्यते / ज्ञानस्य स्वप्रकाशरूपत्वाभावे घटादेः स्वरूपप्रकाशनानुपपत्तेः स्वप्रकाशतैवेष्टव्या। अत्र च प्रयोगः यदव्यक्तव्यक्तिकं न तद् व्यक्तम्, यथा किञ्चित्कदाचित् कथञ्चिदव्यक्तव्यक्तिकम् / अव्यक्तव्यक्तिकश्चायं घटादिः ज्ञानपरोक्षत्व इति व्यापकानुपलब्धिप्रसङ्गः / ज्ञानस्य ज्ञानान्तरेण व्यक्तौ हेतुरयमसिद्ध इति चेन्न, नीलज्ञानोदयकालेऽसिद्धत्वाद् हेतोर्नीलस्य परोक्षत्वप्रसञ्जनात् / न च भवतामपि मते सर्व विज्ञानमेकार्थसमवायिना ज्ञानेन ज्ञायते / बुभुत्साऽभावे तदभावात्, यथोपेक्षणीयविषया संवित् / तत उपेक्षणीयमेव तावद[व्यक्त व्यक्तिकत्वादव्यक्तं प्रसज्येत। न चेयम नास्ति AC 2 मात्रावग्राहि C 3 ०मात्मसंवे D 4 मीमांसकान् प्रति विज्ञानं स्वसंवेदनं प्रत्यक्षमुक्तम् / यश्च सांख्योऽपि 'बाह्यरूपाः सुखादयः' इति मन्यते तं प्रत्याह / टि०