________________ 1.10.] स्वसंवेदनलक्षणम् / इह 'च रूपादौ वस्तुनि दृश्यमाने आन्तरः सुखाद्याकारस्तुल्यकालं संवेद्यते। मचगह्यमाणाकारो नीलादिः सातरूपो वेद्यते इति शक्यं वक्तुम् / यतो नीलादिः सातरूपेणानुभूयत इति न निश्चीयते / यदि हि 'सातरूपोऽयं नीलाविरनुभूयते' इति निश्चीयेत, स्यात् तदा तस्य सातादिरूपत्वम् / यस्मिन् रूपे प्रत्यक्षस्य साक्षात्कारित्वव्यापारो विकल्पेनानुगम्यते तत् प्रत्यक्षम्। .. नुपलब्धिः सन्दिग्धविपक्षव्यावृत्त्याऽनैकान्तिकी कीर्तनीया। [28b] तथा हि यद्यव्यक्तव्यक्तिकमपि व्यक्तव्यवहारविषयस्तदा पुरुषान्तर्वतिज्ञानव्यक्तिकमपि वस्तू स्वज्ञानोदयकालवत तथैव व्यक्तं व्यवह्रियेत / अस्वसंवेदनात्मतया स्वपरसन्तानवर्तिनोनियोविशेषाभावात् / तत्सन्ताने ज्ञानस्याभावात् कथं बस्तुनस्तथा व्यवहार इति चेत् / भावेऽपि तदप्रकाशे कथं तथा व्यवहारः। न हितेनास्य किञ्चित् क्रियते / 9. . . . . . . •तदा तदपि पुरुषान्तरस्य किन्न तथा व्यवहारगोचरः। तदयं व्यक्तव्यवहारो व्यक्तव्यक्तिकत्वेन व्याप्तः। सिद्धे च व्याप्यव्यापकभावे व्यपकानुपलब्धि नैकान्तिकीति / हलकीति / ननु किं तद्रूपान्तरम्, येनोच्यते-येनात्मा सम्वेद्यते, तदात्मसंवेदनं प्रत्यक्षमिति / केवलमर्थशून्यमेतदुच्यते इत्याशङक्याह-इहेत्यादि / अन्तरे भव आन्तरोऽध्यात्मपरिस्पन्दी। कोऽसावीदृश इत्याह-सुखेति / ... ननु गृह्यमाण एव रूपादिः सुखाद्याकारोऽनुभूयते / न तु ततोऽन्यत्सुखादिरूपं येन तस्य वेदनरूपता व्यवस्थाप्यतेत्याह-न चेति / चोऽवधारणे, यस्मादर्थे वा / गृह्यमाण आकारो यस्य ग्राह्यस्वभाव इत्यर्थः / सातरूपः सुखस्वभावः / सातग्रहणस्योपलक्षणत्वाद् दुःखरूप इत्यपि द्रष्टव्यम् / इतिना वचनस्याकारं दर्शयति / कुत एवं वक्तुं न शक्यत * इत्याह- यत इति / इतिनिश्चयस्य स्वरूपमाह। किं ताद्रूप्येण निश्चयेऽपि ताद्रूप्यानुभवः सिद्ध्यति, येन तदा(द)भावान्नैवं शक्यते वक्तुमित्युच्यते इत्याह-यदीति। हि[य]स्माद् इति / इतिकरणेन निश्चयस्वरूपमुक्तम् / अनेन यदेवानुरूपविकल्पेन यथात्वेन निश्चीयते तदेव तथात्वव्यवहारगोचरो यथा नीलादिरित्याकूतम् / ननु च तत्प्रतिभासादनुभवः प्रमाणम् / 1 इह रूपादौ D 2 ०मानेऽन्तर: A. B. C. D. P. H. E. 3 ०कालं वेद्यते C. 4 सातादिरू० P. H. E. N. 5 इति वक्तुं शक्यम्-A. P. H. E. 6 सातादिरूपेण A. C. D. P. H. E. N. सातानुरूपेण-B. * सातादिरूपोऽयं A. C. P. H. E. N. ... 8 स्यात् तस्य A. C. P. E. .. 9 पडिक्तबाह्यं लिखितं सम्यक न पठ्यते-सं० - .