________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.10. नच नीलस्य 'सातरूपत्वमनुगम्यते। तस्मादसातान्त्रीलायर्यादन्यदेव' सातमनुभूयते नीलानुभवकाले। तच्च ज्ञानमेव / ततोऽस्ति' ज्ञानानुभवः / तच्च 'ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पकमभ्रान्तं च / 'ततः प्रत्यक्षम् // निश्चयो भवतु, मा वा भूत् / तत्किमेवमुच्यत इत्याशडक्य पूर्वोक्तमेव स्मारयति-यस्मिन्निति। रूपे स्वभावे। शेष प्रागेव कृतव्याख्यानम् / गृहीतं नीलस्य सातरूपत्वं विकल्पेनानुगम्यत / एवेत्याह-न चेति / चः पूर्ववत् / अनुगम्यते विकल्पेनेति वर्तते। तस्मावित्यादिनोक्तमुपसंहरति / यस्माद् गृह्यमाणाकारो नीलादिर्न तथा निश्चीयते, अस्ति च हर्षाद्याकारसंवेदनम्, तस्माद् / भवतु साताकारोनुभूतः। केवलमसावज्ञानात्मा भविष्यति / तथा च कथमज्ञानेन ज्ञानात्मसंवेदनम् ? कथं चात्मवेदनं प्रत्यक्षमित्याह -तच्चेति। चोऽज्ञात्मन एवं भिनत्ति / शानमेवेत्यवधारयतः प्रकाशात्मन एव ज्ञानत्वमन्यथा प्रकाशायोगादित्यभिप्रायः। यत एवं . ततोऽस्ति ज्ञानानुभवः / इत्यन्तर्मुखस्य सुखाद्याकारस्य ग्राहकाकाराख्यस्येत्यर्थः / न च ग्राह्याकारादन्यदनुभूयमानं सातं ग्राहकाकारादप्यन्यदुपपद्यते / ग्राह्यं वा प्रकाशेत, ग्राहक वा। न च तद् ग्राह्यमतो ग्राहकमेव / अथ ज्ञानमस्तु तथानुभूतम् / तत्पुनरात्मसंवेदनं प्रत्यक्षं कुत इत्याह तच्चेति / चो यस्माद् / वेद्यतेऽनेनेति वेदनम्। ज्ञानरूपस्य वेदनमिति विग्रह 129al: / यद्वा ज्ञानरूपं च तद् वेदनञ्चेति तथा। साक्षात्कारि अपरोक्षताकारि. स्फटावभासमिति यावत्, हेतुभावेनास्य विशेषणत्वात् / अत एव च निर्विकल्पकम् / विकल्पानबद्धस्य स्पष्टार्थप्रतिभासित्वायोगात् / भवतु निर्विकल्पकं द्विचन्द्रादिज्ञानवद भविष्यतीत्याह-अभ्रान्तं चेति / चस्तुल्योपायत्वं समुच्चिनोति / नहि तत् स्वात्मनि अतस्मिस्तदिति प्रवृत्तम् / येन तत्र भ्रान्तिर्भविष्यतीति भावः / भवतां निर्विकल्पकत्वाभ्रान्तत्वे तत: कि सिद्धमित्याह-तत इति / यत एतद् रूपद्वययोगि ततस्तस्मात् / एतावन्मात्रलक्षणत्वात्प्रत्यक्षस्येति भावः / - तत्र चेयं व्यवस्था। आत्मात्मयोग्यता प्रमाणम्, आत्मसंवित् फलमिति द्रष्टव्यम् / स्यान्मतम्-इत्थं तस्य वेदनस्य प्रत्यक्षत्वे विकल्पात्मवेदनस्यापि तत्त्वं स्यात् / न च विकल्पात्मा प्रत्यक्षं युज्यते। युज्यते स्वात्मनि, अविकल्पनादभ्रान्तत्वाच्च / विलल्पो हि बाह्य विकल्पयति न त्वात्मानम्। भ्राम्यति च ब्राह्ये, नात्मनि / ततः किं न प्रत्यक्षम् ? प्रयोगःयदभ्रान्तत्वे सत्यविकल्पं तत्प्रत्यक्षम् / यथेन्द्रियज्ञानस्य बाह्यसंवेदनम् सारूप्याख्यम् / अभ्रान्तत्वे सत्यविकल्पकं चात्मनि विकल्परूपवेदनमिति स्वभावः / यथा च ज्ञानात्मनि समयासम्भवो यथा वा समितः शब्दसंसृष्टोन गृह्यते तथाऽन्यत्र प्रपञ्चितमिति नेहोच्यत इति / / . 1 सातादिरूप० C. - नीलादर्थाद० C. D. . सातरूपत्वमनु० D. 4 ०स्ति विज्ञा० D. ज्ञानरूपं वेदनं A. B. P. H. E. N. ज्ञानस्वरूपवेदनं C. D. 'तस्मात्-A. B. C. P. E. H. N. .