________________ 1.11.] योगिप्रत्यक्षलक्षणम् / ___योगिप्रत्यवं व्याल्यातुमाह - भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति // 11 // भूतः सद्भुतोऽर्थः। प्रमाणेन दृष्टश्च सद्भूतः / यथा चत्वार्यार्यसत्यानि / भूतस्य भावना पुनः पुनश्चेतसि विनिवेशनम्। भावनायाः प्रकर्षो भाव्यमानार्थाभासस्य ज्ञानस्व स्फुटाभत्वारभ्भः / प्रकर्षस्य पर्यन्तो बदा स्फुटाभत्वमीषवसंपूर्ण भवति / यावद्धि स्फुटाभत्वमपरिपूर्ण तावत् तस्य५ प्रकर्ष गमनम् / भूतशब्दस्य विवक्षितमर्थमाह-सद्भूत इति / अर्थ इति ब्रुवाणो भूतश्चासावर्थश्चेति कर्मधारयं दर्शयति / ननु सुखादिमयत्वमप्यर्थस्य सांस्यपरिकल्पितं सद्भतमित्याहप्रमाणेनेति / दृष्टो निश्चितः। चकारः स्फुटमेतदित्यर्थं द्योतयति। / कः पुनरीदृशोऽर्थो विवक्षित इत्याह-यथेति / अनेन भूतार्थशब्देनात्र सत्यचतुष्टयं विवक्षितमिति दर्शितम् / यथा चतुरार्यसत्यभावनाबलजं ज्ञानं योगिनः प्रत्यक्षम्, तथाऽन्यसद्भूतार्थविषयमपि द्रष्टव्यमिति यथाशब्दार्थोऽप्यस्ति। यद्विनिश्चयः "चतुरार्यसत्यदर्शनवदिति / " आरात्पापकेभ्यो धर्मेभ्यो याता इत्यार्याः। अत एव तानि सत्यतया मन्यन्त इति तेषां सत्यानि / चतुष्ट्वाच्च तेषां चत्वारीत्युक्तम् / * फलभूताः पञ्च सक्लेशस्कन्धा दुःखाख्यं सत्यमेकम् / त एव हेतुभूतास्तृष्णासहायाः समुदयाख्यं सत्यं द्वितीयम् / चित्तस्य निष्कलेशावस्था निरोधाख्यं सत्यं तृतीयम् / तदवस्थाप्राप्तिहेतुनरात्म्याद्याकारश्चित्तविशेषो मार्गाख्यं सत्यं चतुर्थमिति / भावनाशब्देन विग्रहं तस्य चार्थमाचष्टे भूतस्पेति / भूतार्थस्येति द्रष्टव्यम् / लक्ष्यते च भूतशब्दसान्निध्याल्लेखकेन प्रथमपुस्तके भूशब्द: प्रक्षिप्तः / तस्येति तु वचनं संक्षेपेण विग्रहं दर्शयतो धर्मोत्तरस्य पाठोऽन्यथा यथाभूतं विग्रहं दर्शयितुकामेनार्थपदोपादाने किमक्षरगौरवं दृष्टम्, येन केवलभूतशब्दोपादाने प्रतिपत्तिगौरवं लिखनाकौशलञ्चाविष्कृतमिति / भावनार्थमाहपुनरिति / पुनरित्यप्रथमतः / द्विवचनेनाप्रथमप्रचारस्य प्राचर्य दर्शयति / तथा निवेशनञ्च विजा[29b]तीयाव्यवधानेन द्रष्टव्यम् / सत्यचतुष्टयविषयो विजातीयाव्यवहितः सदृशचित्तप्रवाहो भावनेति यावत् / . ख्यातुकाम आह C.D. 2 यथावस्थितः-टि० .3 दुःखसमुदयमार्गनिरोधाः। तत्र दुःखं संसारिणः स्कन्धाः / समुदयो रागादिगणः / मार्गः क्षणिकत्वभावना। निरोधो मोक्षः ।-टि० 4 विभासस्य B.N . 5 स्फुटाभत्वस्य-टि० 6 प्रकर्षगतिः A.P. H. E. N.