________________ 68 प्रथमः प्रत्यक्षपरिच्छेदः / संपूर्ण तु यदा तदा नास्ति प्रकर्षगतिः। ततः संपूर्णावस्थायाः प्राक्तन्यवस्था स्फुटा-, 'भत्वप्रकर्षपर्यन्त उच्यते। तस्मात् पर्यन्ताद् यज्जातं२ भाव्यमानस्यार्थस्य संनिहितस्येव स्फुटतराकारग्राहि ज्ञानं योगिनः प्रत्यक्षम् / तदिह स्फुटाभत्वारम्भावस्था भावनाप्रकर्षः। अभ्रकव्यवहितमिव यदा भाव्यमानं यादृशो योगिनां भावनाक्रमो विनिश्चये "श्रुतमये" त्यादिनाभिहितो यथा भावनाप्रकर्षविशदाभत्वयोः कार्यकारणभावस्तत्रैव "कामशोके"त्यादिना दर्शितस्तथेहापि द्रष्टव्यः / यादृशश्चाकारस्तेषां सत्यानामनित्यत्वादिके भावनीयो यावत्कालावधिका च भावनाऽनेकजन्मपरम्परानुयाता, यच्च निबन्धनं भावनायाः करुणा बोधिसत्त्वानाम् , तदन्येषां संसारोद्वेगस्तदपि सर्वं यथा प्रमाणवात्तिके निर्णीतं तथेहाप्यनुगन्तव्यम् / इह तु योगिज्ञानस्य स्वरूपमात्रमुपदर्शयितुमुपक्रान्तमिति / प्रकर्षशब्देन सह विग्रहं तस्य चार्थं विवक्षितमाह-भावनाया इति। स्फुटाभत्वस्यारम्भ उपक्रमः / स च यत्स्फुटत्वतदधिकस्फुटत्वादिना रूपेण तज्ज्ञानस्योदय एव / पर्यन्तशब्देन विग्रहं तस्य चार्थमाचष्टे प्रकर्षस्येति पर्यन्तोऽवसानम् / कदा च तस्यावसानमित्याह-यदेति / यस्मिन् काले स्फुटाभत्वं भावनार्थ विषयस्य ज्ञानस्येति प्रकरणात् / इदं लेशतोऽसम्पूर्ण भवति / यदन्तरं योगिप्रत्यक्षेण भवितव्यं तस्मिन् काले प्रकर्षस्य पर्यन्तोऽवसानं ज्ञातव्यः / तत्कालोपलक्षितं तथाभूतं ज्ञानं पर्यन्त इत्यर्थः / ननु प्रकर्षस्य पर्यन्तः स युज्यते यस्मिन् सति प्रकर्षों निवर्त्तते / तच्च सम्पूर्व(ण)मेव स्फुटाभत्वम् , तत्कथमुच्यते कथञ्च पर्यन्तजं योगिज्ञानम् , न तु तदेव पर्यन्त इत्याशङक्याह-यावदिति। हिर्यस्मात् / सम्पूर्णे तु प्रकर्षगमनं नास्तीति दर्शयति-सम्पूर्णमिति / तुरिमामवस्थां भेदवतीमाह। प्रकर्षस्य गतिर्गमनम् / एवं ब्रवतोऽयमाशयः। प्रकर्षः प्रकृष्यमाणता सातिशयं रूपमुच्यते। पर्यन्तश्च गत्यर्थादामर्द्धातोस्तत्प्रत्ययेन (?) परिसमन्तादन्त इति प्रादिसमासेन निःशेषगमनमेवोच्यते / ततः स पर्यन्त उच्यते यदनन्तरं प्रकर्ष (कृष्यमाणेन न भवितव्यम् / न तु यदर्थं येषां प्रकर्षवतामुदय इति / एतदेवोपसंहरति तत इति / प्राक्तनी व्यवधानशून्या यदनन्तरं स्फुटतरज्ञानोदयः / संपूर्णावस्थायाः स्फुटत्वसम्पूर्णावस्थायाः स्फुटतराकारग्रहणावस्थाया इति यावत् / सन्निहितस्येति / यथाऽन्यस्याभावितस्य निकटस्थस्य घटघ(पोटाद(दे)रन्यज्ञानं स्फुटतराकारग्राहि प्रत्यक्षं तद्वद् भाव्यमानार्थस्फुटतराकारग्राहि यज्ज्ञानं तद्योगिनः प्रत्यक्षम् / उक्तमेव भावनाप्रकर्षार्थं तत्पर्यन्तार्थं तज्ज्ञानं चोपसंहारव्याजेन सुखप्रतिपत्त्यर्थं पुनर्दर्शयति तदिति / तत्तस्मात् / इहेति योगिप्रत्यक्षलक्षणप्रतीतिकाले। अवस्था भावनाज्ञान त्वं प्रक. E. 2 जातं ज्ञानं भाव्य. C.D. 3 भाव्यमानस्य सं० A. B. P. H. E.