________________ 1.11.] योगिप्रत्यक्षलक्षणम् / वस्तु पश्यति सा प्रकर्षपर्यन्तावस्था। करतलामलकवद् भाव्यमानस्यार्थस्य यद् वर्शनं तद् योगिनः प्रत्यक्षम् / तद्धि स्फुटाभम् / स्फटाभस्वादेव च निर्विकल्पकम् / विकल्पविज्ञानं हि संकेतकालदष्टत्वेन वस्तु गहछछब्दसंसर्गयोग्यं गह्णीयात् / संकेतकालदृष्टत्वं च संकेतकालोत्पन्नज्ञानविषयत्वम् / यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं संप्रत्यसत्, तद्वत् पूर्वविनष्टज्ञानविषयत्वमपि संप्रति नास्ति वस्तुनः / तदसद्रूपं वस्तुनो गृहृद् असंनिहितार्थनाहित्वाद् अस्फुटाभम् 2 विकल्पकम् / ततः स्फुटाभस्वान्निविकल्पकम् / / . . . स्यति प्रकरणात् / अभ्रकेणातिस्वच्छतया पाश(व)तो द्विधाकर्तुमशक्येनेति प्रस्तावाद् व्यवहितमावृतं तदिव / करस्वरूपं करतलं सन्निहितस्येवेत्यनेन यत्पूर्वमुक्तं [30a] तस्यायमुपसंहारः / अस्तु तथाविधं योगिज्ञानम्, तत्पुनः कथं प्रत्यक्षमित्याशङ्कामपाकर्तु प्रत्यक्षलक्षणेन योगमस्य दर्शयन्नाह तद्धीति। हिर्यस्मात् / स्फुटाभं भवतु, निर्विकल्पकं तु कथं येन प्रत्यक्षं स्यादित्याह-स्फुटाभत्वादेवेति / चो निर्विकल्पकमित्यतः परः स्फुटाभत्वापेक्षकविषयत्वं निर्विकल्पकत्वस्य समुच्चिनोति / अयमस्याशयः-शब्दाकारसंसर्गो हि स्फुटाभत्वविरोधीति यद्यसावभविष्यत् तदा स्फुटाभमेव नाभविष्यदिति / अभिलापसंसर्गयोग्यप्रतिभासमेव स्फुटाभं भविष्यति कोऽनयोर्विरोध इत्याशय विकल्पेत्यादिना विरोधमेव दर्शयितमपक्रमते। हिर्यस्मात् / वस्त्विति दृश्यमानं यथा चैतत्तथा पूर्वमेव विवेचितं गृह्णीयाद् ग्रहीतुमर्हति / सङ्केतकालदृष्टत्वेन च वस्तुग्राहित्वेऽसन्निहितविषयं स्यादिति दर्शयितुमाह–सङ्कतेत्यादि / चो हेतौ। भवतु सङ्केतकालदृष्टत्वस्य तथात्वम्, किमत इत्याह-यथा चेति / चो वक्तव्यमेतदित्यस्यार्थे / .. भवत्वेवं तथापि वाचकाकारसंसर्गिणोऽपि कथं न स्फुटाभत्वमित्याह तदिति / यत एवं तत्तस्मात् / विकल्पयतीति विकल्पक विज्ञानम् / अस्फुटाभं तु कुतस्तदित्याहअसन्निहितार्थग्राहित्वादिति / सन्निहिततया हि भासमानो विशदो भवेत्। पूर्ववृत्तदर्शनविषयतया च भूतपूर्वो भावो गृह्यमाणो न सन्निहितरूपो भासते। तेनाविंशदाभो विकल्पः / तेन शब्दाकारसंसर्गो विकल्पस्य विशदाभत्वविरोधीत्यस्याभिप्रायः। असन्निहितविषयत्वमेव तस्य कुतोऽवसीयत इत्याह-असद्रूपमिति / यत्पूर्वदृष्टत्वं सम्प्रत्यसद्, असद्रूपं वस्तुनो गृह्यमाणस्य गृह्णदिप्ति हेतौ शतुर्विधानादसद्पग्रहणादित्यर्थः / स्फुटाभत्वादेवेति यदवोचत्, तदेवोपसंहरति तत इति / यतो विकल्पस्य स्पष्टाभत्वं न युज्यते, अनन्तरोक्तेन क्रमेण ततस्तस्मात्स्फष्टाभत्वाद विशदाभत्वान्निविकल्पकं योगिज्ञानमिति प्रकरणात्। प्रयोगः--यत्सङ्केतकालदृष्टतया वस्तुसंस्पर्शि ज्ञानं न तत्स्फुटाभम् / यथा चिर १०हितग्राहि० B.C२.ग्राहित्वादस्फुटाभं सविकल्पकम् C. अस्फुटाभम्। अस्फुटाभत्वात् सविकल्पकं-A. P. अस्फुटाभम् / अस्फुटाभत्वादेव च सवि० D. B. H. E.N.