________________ प्रथमः प्रत्यक्षपरिच्छेदः / [1.12. प्रमाणशुद्धार्थवाहित्वाच्च संवादकम् / अतः प्रत्यक्षम् / इतरप्रत्यक्षवत् / योगः 'समाधिः। स यस्यास्ति' स योगी। तस्य ज्ञान प्रत्यक्षम्। इतिशम्बः परिसमाप्ति वचनः। इयदेव प्रत्यक्षमिति // तदेवं प्रत्यक्षस्य कल्पनापोढत्वाभ्रान्तत्वयुक्तस्य प्रकारभेवं प्रतिपाच विषयविप्रतिपत्ति - निराकर्तुमाह तस्य विषयः स्वलक्षणम् // 12 // तस्येत्यादि / तस्य चतुविधस्य प्रत्यक्षस्य विषयो बोद्धव्यः५ स्वलक्षणम् / स्वम् . असाधारणं लक्षणं तत्त्वं स्वलक्षणम् / वस्तुनो ह्यसाधारणं च तत्त्वमस्ति सामान्यं च / "तत्र यवसाधारणं तत् प्रत्यक्षस्य ग्राह्यम् / दृष्टनष्टवस्तुविकल्पः / सङ्केतकालदृष्टतया च दृश्यमानवस्तुसंस्पर्शी विकल्पः / स्फुटाभासत्वं नाम सन्निहितरूपभासनम् / असन्निहितरूपभासनेन च वस्तुनः पूर्वदृष्टत्वग्रहणं व्याप्तम् / / न हि पूर्वज्ञानविषयत्वं पूर्वस्मिन् ज्ञाने निवृत्ते वस्तुनोऽस्ति। तदुत्तरकालभाविना ज्ञानेन पूर्वज्ञानविषयत्वमसन्निहितमेव वस्तुनः स्पृश्यते। पूर्वज्ञानविषयत्वग्रहणमेव च सइंतकालदृष्टशब्दविशिष्टत्वग्रहणम् / तदिदं विरुद्धं (ख)व्याप्तोपलब्धर्भवतु निर्विकल्पकम् / असत्यभ्रान्तत्वे तु कथं प्रत्यक्षमित्याह-प्रमाणेति / प्रमाणाधिगतोऽर्थः प्रमाणशुद्ध उच्यते। सत्यचतुष्टयं चैवमात्मकम् / तदेव शुद्धत्वेन विवक्षितम् / चः [30b] संवादकमित्यतः परो निर्विकल्पत्वेन सह संवादकत्वेन संवादकत्वं समुच्चिनोति तत्रस्थ ए[व] वा . पूर्वहेत्वपेक्षया हेत्वन्तरसमुच्चयार्थः। अतोऽस्मानिर्विकल्पकत्वादभ्रान्तत्वाच्च / योगिशब्दस्य व्युत्पत्तिमाह-योग इति / समाधिश्चित्तैकाग्रता। इंह धर्मोत्तरेण लोकप्रसिद्धिराश्रिता। विनिश्चयटीकायां तु शास्त्रस्थितिस्तेनाविरोधः। यद्वा समाधिग्रहणस्योपलक्षणत्वात् प्रज्ञा च विवेककरणशक्तिर्द्रष्टव्या। स यस्यास्ति स नित्यसमाहितो विवेककरणतत्परश्च योगी। परिसमाप्तेराकारं दर्शयति-इयदिति। इयदेव चतु:संख्यावच्छिन्नमेव // तदेवमित्याद्याहेत्येतदन्तं सुबोधम् / विषयो. बोद्धव्यः। क इत्याकाक्षायामाहस्वलक्षणमिति। स्वशब्दस्य लक्षणशब्दस्य चार्थमाचक्षाणो विग्रहमुपलक्षयति--स्वमित्यादिना। स्वमात्मीयमुच्यते। यस्य यत् स्वं तत् तस्यैव नान्यस्येति लक्षणया स्वशब्देनासाधारणमुक्तम् / लक्षणशब्देन च तत्त्वं स्वरूपं विवक्षितम् / स्वशब्दलक्षणशब्दयोरर्थमभिधाय तयोः समस्तं पदमाह-स्वलक्षणमिति। अनेन स्वमसाधारणं च तल्लक्षणं स्वरूपं चेति कर्मधारयो दर्शितः / 'शुभचित्तैकाग्र्यम्-टि० 2 यस्यास्तीति स C 3 परिसमाप्त्यर्थः A. P. H. E.N. 4 तस्य प्रत्यक्षस्य C. तस्य चतुर्विधप्रत्य० A. P. H. E. N.. 5 पर्यायग्राह्य इत्यर्थ:-टि. 6 अर्थक्रियाकारित्वम्-टि. . 'तत्र' नास्ति-A.B.D. P.H. E. 8 प्रत्यक्षग्राह्यम् A. B. P. H. E.