________________ 1.12.] प्रत्यक्षविषयः स्वलक्षणम् / द्विविधो हि विषयः' प्रमाणस्य-ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति / भन्यो हि ग्राह्योऽन्यश्चाध्यवसेयः। प्रत्यक्षस्य हि क्षण एको प्रायः। अध्यवसेयस्तु प्रत्यक्षबलोत्पन्नेन निश्चयेन संतान एव। सन्तान एव च प्रत्यक्षस्य प्रापणीयः / क्षणस्य प्रापयितुमशक्यत्वात् / तथाऽनुमानमपि स्वप्रतिभासेऽनऽर्थाध्यवसायेन प्रवृत्तेरनर्थग्राहि / ननु सम्भवे व्यभिचारे च विशेषणमर्थवत् / अत्र च सर्वस्यैव स्वरूपस्यासाधारणत्वात् सम्भव एव, न व्यभिचार इति किं स्वशब्देन ? एवं तु वक्तव्यम्-वस्तुरूपं तस्य विषय इत्याशयाह-वस्तुन इति / हिर्यस्मात् / चो वक्ष्यमाणापेक्ष्यः (क्षः) समुच्चये। सामान्य साधारणं रूपं संवृतिज्ञानघटितम् / चः पूर्वापेक्षः समुच्चये। सति चैवं द्वैरूप्ये कि पूर्वं रूपम् , अथ परं प्रत्यक्षस्य विषय इति सन्देहे--यवसाधारणं तत्प्रत्यक्षस्य ग्राह्यमुच्यत इति शेषः। ग्राह्यमिति ब्रुवन् विषयशब्देनाचार्यस्य ग्राह्यो विषयोऽभिप्रेत इति दर्शयति / स्यादेतत्-प्रवृत्तिविषय एव प्रमाणस्य विषयस्ततः प्रवृत्तिविषयस्तस्य विषय इति वक्तव्यम् / तत्कि ग्राह्यमित्युच्यत इत्याह-द्विविध इति / अनेन भेदः प्रतिज्ञातः / हिर्यस्मात् द्विप्रकारो विषयः प्रमाणस्येति जातिविवक्षयकवचनम् / एको ग्राह्योऽन्यः प्रापणीयः। भेदमुपपादयति-यदाकारं यत्प्रतिभासं ज्ञानमुत्पद्यते / सोऽपि द्विविध:-परमार्थ आरोपितश्च / द्वयोरपि स्वज्ञाने प्रकाशनमस्त्येवेति द्रष्टव्यम् / प्रापणीयो यमध्यवस्यति / ततो ज्ञानाद् यत्र प्रवर्तत इति यावत् / चकारी पूर्वापरापेक्षया समुच्चयाौँ / ननु ग्राह्याध्यवसेयशब्दयोरेव भेदो न त्वर्थस्य / यतो यदेव प्रकाशते तदेवाध्यवसीयते, तत् किमेवमुच्यत इत्याह-अन्यो हीति / हिर्यस्मादथं / चोऽवधारणे। कस्य कीदशो ग्राह इतरो वेत्याह-प्रत्यक्षस्यति / हिरवधारणे एक इत्यस्मात्परो द्रष्टव्यः। करतहवसेय अध्यवसेय इति [31a] | तुर्ग्राह्यादध्यवसेयं भिनत्ति / अथ कि प्रत्यक्षमवसायात्मकं येन तस्यासाववसेय इत्याह-प्रत्यक्षेति। प्रत्यक्षपृष्ठभाविनो निश्चयस्य प्रत्यक्षगृहीत एवं प्रवृत्ततयाऽनतिशयाधानेन यत् तेनाध्यवसितं तत्प्रत्यक्षेणैवावसितमिति भावः / * ननु ग्राह्यादन्यः प्रापणीयो विषयः प्रत्यक्षस्योक्तः / इदानीं पुनरवसेयः / तदयं तृतीयो विषयः प्राप्त इत्याह-सन्तान एवेति / चो यस्मादर्थे / उपादानोपादेयभावेन व्यवस्थितः क्षणप्रबन्ध एकत्वेनाधिमुक्तः सन्तानः / ग्राह्य एव कस्मान्न तेन प्राप्यत इत्याह-लक्षणस्येति (इत्याह-मणस्येति) / यदाकारं प्रत्यक्षमुत्पद्यते तस्य क्षणस्येति प्रस्तावात्। एवञ्च विवृण्वतोऽस्य प्रमाणस्येत्यत्र प्रत्यक्षाभिप्रायेण प्रमाणशब्द इन्द्रियजप्रत्यक्षविवक्षया द्रष्टव्यः / स्वसंवेदनादीनां विषयविध्यासम्भवादिति / अथ भवत्वेकं प्रत्यक्षं विषयद्वैविध्यवद्, अनुमानं तु कथं तथाविधम् ? प्रमाणस्येति च ' हि प्रमाणस्य विषयः A. P. H. N. २सामान्य-टि० __ 3 ऽनर्थेऽनर्थाध्य. A. P. H. * सामान्यग्राहि-टि.