________________ - 72 प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.12. स पुनरारोपितोऽर्थो गृह्यमाणः स्वलक्षणत्वेनावसीयते यतः,२ ततः स्वलक्षणमवसितं' प्रवृत्तिविषयोऽनुमानस्य / अनर्थस्तु ग्राह्यः। तदत्र प्रमाणस्य ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्तः। ब्रुवता तदपि विषयद्वैविध्यवदभ्युपगतमेव इत्याशङ्कयाह-तथेति / येन प्रतिभासाध्यवसायलक्षणेन प्रकारेण प्रत्यक्षमन्यग्राह्यन्याध्यवसायि तथा तेन प्रकारेणेति तथाशब्दार्थः / न केवलं प्रत्यक्षमन्यद् गृह्णाति, अन्यदध्यवस्यति, किन्त्वनुमानमप्यन्यग्राह्यन्याध्यवसायीत्यपिशब्देनाह / इहैवच्छेद: कर्त्तव्योऽन्यथा व्याख्यानमसमञ्जसं स्यात् / किं गृह्णातीत्याह-अनर्थग्राहीति / अनुमानमिति प्रकृतत्वात् / कथमुपपद्यत इत्याशङक्योपपत्तिमाह-स्वप्रतिभास इति / स्वस्य प्रतिभास इव प्रतिभासः। शक्तिद्वययोगात्तथारोप्यमाणं रूपम्। तस्मिन्ननर्थेऽबाह्यरूप्ये (रूपे):. र्थाध्यवसायेन बाह्याध्यवसायेन तद्भेदानवभासनात्मकाभेदाध्यवसानलक्षणेन प्रवृत्तः प्रवर्त्तनात् / अथानर्थे स्वप्रतिभासेऽर्थाध्यवसायनानुमानविकल्पोऽन्यो वा प्रवर्तक इति किमुक्तं भवति ? स्वप्रतिभासस्यारोप्यमाणस्य चार्थस्यावसीयमानस्य . विवेकं न / प्रतिपद्यत इत्युक्तं भवति / न हि तेनैव विवेकप्रतिपत्तिः, तेन स्वप्रतिभासस्य तथात्वेनाविकल्पनात् / अत्र चानुभव: प्रमाणम् / बाह्यवह्नयादावप्रवृत्त्यादिप्रसङ्गश्च / नापि विकल्पान्तरेण / तस्यापि तथा प्रवृत्ततया पूर्वविकल्पप्रतिभासासंस्पर्शादित्यलमिह विस्तरेण / यद्येवं कोऽस्याध्यवसीयमानः प्रापणीयो विषय इत्याह–स इति। पुनरिति सर्वतो विशिनष्टि। आरोपित इति स्वरूपानुवादः। अर्थ इति अर्थ इवार्थो गृह्यमाणः प्रतीयमानस्तस्मिन् ज्ञाने प्रकाशमान इति यावत्। अनेन स्वलक्षणमध्यवस्यतीदमिति प्रकाशितम् / तदनेनानुमानस्य ग्राह्याध्य- . वसेयौ भेदेन सामर्थ्यादभिधाय सुखप्रतिपत्त्यर्थं तावेव कण्ठोक्तौ करोति-तत इति / यतः स्वलक्षणत्वेन तस्यावसायस्ततः[31b] स्वलक्षणमवसितं प्रवृत्तिविषयोऽनुमानस्य। स्वलक्षणमवसितमित्येतदप्यभिमानादभिधीयते / न पुनः स्वलक्षणमवसायस्य गोचरः / तविषयत्वे तस्य निरंशत्वात् क्षणिकत्वादेरप्यवसितावनुमानानवतारप्रसङ्गात् / एतच्च किञ्चिदिहैवोपरिष्टात्स्पष्टयिष्यामः / परार्थानुमाने तु यथाऽवसरं विस्तरेण निर्णेष्यामः / - प्रवृत्तिविषयस्यैव प्रापणीयत्वात् प्रापणीय एव प्रवृत्तिविषयशब्देनोक्तः / तुः प्रापणीयाद् विषयाद् ग्राह्य भेदवन्तं दर्शयति / तस्मिन् ज्ञाने प्रकाशमाने प्रकाशनादनों ग्राह्य उक्तः / - स्यादेतत्-यद्यवसितं स्वलक्षणं प्रवृत्तिविषयोऽनुमानस्य तदा कथमेष धर्मोत्तरो विनिश्चयटीकायामवादीत् "अवसितश्चाकारो विकल्पानां ग्राह्यः" इति / एवं हि स्वलक्षणमेव ग्राह्य समथितं स्यान्नानर्थ इति / ततो व्यक्तो व्याघातः / परमार्थदृष्ट्या तत्र तथाभिधानान्न दोषः / तथाहि परमार्थतो विकल्पानामारोपितमेव रूपमवसेयं ग्राह्यम्, तथापि व्यवहार आरोपितमेव रूपमवृक्षव्यावृत्तमवस्यन्तो बाह्यस्यापि तथात्वाद् बाह्यं वृक्षमवस्याम इत्यभिमन्यन्ते, तयोविवे १नाध्यवसी० C. D. N 2 सीयते ततश्च स्व. D. 3 मध्यवसितम् A. B. D. P. H. E. N. ४०षयोऽस्यानुमा० C. D.