________________ 1.12. ] प्रत्यक्षविषय: स्वलक्षणम् / 73 काप्रतिपत्तेः / तदनुरोधात्स्वलक्षणमवसितमित्युच्यते / तस्यैव त्वारोपितस्य परमार्थतोऽनुमेयस्य प्रतिभासमानं केवलमाकारमाश्रित्य ग्राह्यत्वमुच्यते / ततस्तत्र वास्तवावसितरूपाभिप्रायेण तथाभिधानात् को विरोधः ? तदत्रेत्यादिनोपसंहरति / यस्मात्प्रमाणस्य द्विविधो विषयो ग्राह्याध्यवसायभेदेन तत् तस्मात् / अत्र विषयविप्रतिपत्तिनिराकरणकाले ग्राह्यं विषयं दर्शयतेति ब्रुवन् विषयशब्देनाचार्यस्थ ग्राह्यो विषयोऽभिप्रेत इति स्फुटयति / स्यादेतत्-न वै ग्राह्यविषयापेक्षं प्रत्यक्षस्य प्रामाण्यमुपपद्यते। यत एकः क्षणस्तस्य ग्राह्यः / न च तत्प्रापणं सम्भवति। नाप्यनुमानस्य ग्राह्यापेक्षं प्रामाण्यम् / अनर्थो हि तस्य ग्राह्यः / न च तत्प्राप्तिः सम्भविनी। न च येन यस्याप्रापणं तस्य तत्र प्रामाण्यमभ्युपेयते, अतिप्रसङ्गापत्तेः / अथैकनीलक्षणाकारतयोत्पत्तिरेव प्रत्यक्षस्य तत्प्रापणम्, अनुमानस्यापि वल्याद्यध्यवसायितया तथोत्पत्तिरेव तत्प्रापणमुच्यते। तहि न किञ्चिदवशेषितं स्यात् / कस्य नाम ज्ञानस्य सविकल्पस्य निर्विकल्पकस्य वा तत्तदाकारतयोत्पत्तिर्नास्ति येन तस्य प्रामाण्यं न स्यात् / तस्मान्न द्विविधो विषयः प्रमाणस्याभिधानीयोऽपि त्वेक एव प्रवृत्तिविषयाख्यो विषयः ख्यापनीय इति / - अत्र च समाधीयते। ज्ञानानां तावद् ग्राह्याध्यवसा (से) यभेदेन द्विविधो विषयोऽवश्यैषितव्योऽनुभवसिद्धत्वात् / तत्र प्रामाण्यं प्रवृत्तिविषयापेक्षं व्यवस्थाप्यते / ज्ञानत्वं तूभयापेक्षमेव / अज्ञानस्य च प्रामाण्यासम्भवेन ज्ञानान्तर्भूतं प्रमाणं विषयद्वैविध्यवदेव भवति / केवलं न ग्राह्यापे[32a]क्षं प्रामाण्यमपि तु प्रवृत्तिविषयापेक्षमिति प्रतिपाद्यते / ग्राह्यापेक्षया तु प्रमाणस्येति वचनं स्वरूपानुवादकम् / यद्वा प्रमाणशब्देन ज्ञानमेवात्र विवक्षितम् / यथाऽयं विनिश्चयटीकायां स्वार्थानुमानव्याख्यानावसरे व्यक्तमाह-"द्विविधो ज्ञानानां विषयो ग्राह्यश्चाध्यवसेयश्चेत्यादि / " ततो न किञ्चिदवद्यम् / अथापि स्यात्। यदि ग्राह्यो विषयो न कदाचिदपि प्रत्यक्षस्य प्रापणीयस्तहि तेन दर्शितेन किम्प्रयोजनं येनोच्यते तदत्र ग्राह्यं विषयं दर्शयता प्रत्यक्षस्य स्वलक्षणं विषय उक्त इति / नैष दोषः / एवमेवास्य प्रवृत्तिविषयप्रदर्शनात् / यदि हि प्रत्यक्षं क्षणमेकं ग्रहाति तत्रानीलव्यावृत्तिनिश्चयोपजने सन्तानं निश्चाययत् प्रवृत्तिविषयं प्रदर्शयेत् तत्सन्तानभाविनाञ्च ज्ञानानामप्रामाण्यमापादयेत् , न तु किञ्चिदगृह्मत् / तथा हि सन्तानोल्लेखेन निश्चयाभावेऽप्यनीलव्यावृत्तिस्तावदनागतसर्वक्षणसाधारणी प्रत्यक्षेण गृहीतनिश्चिता। तन्निश्चय एव सर्वानीलव्यावृत्तोपादानोपादेयभावस्थितनीलक्षणनिश्चयः, तदभिन्नयोगक्षेमत्वादुत्तरप्रबन्धस्य। तथानिश्चय एव च सन्ताने निश्चय उच्यते / अत एव च तदाद्यं ज्ञानं तथाऽनुष्ठानं तत्सन्तानभावीनि पराञ्चि ज्ञानान्यनीलव्यावृत्तं रूपं गृहीतमेव गृह्णन्त्यनीलव्यावृत्तिनिश्चयं च कृतमेव कुर्वन्त्यनतिशयाधायीनि प्रचुराण्यपि प्रामाण्यात्प्रच्यावयत् प्रामाण्यमात्मसात्करोतीति न्याय्यं ग्राह्यप्रदर्शनमिति सर्वमवदातम् / / इहाचार्यस्य-स्वमसाधारणं सन्तानान्तरसाधारणं यन्न भवति, यदर्थक्रियाक्षममेव सर्वतो व्यावृत्तं तत्त्वं तदेव स्वलक्षणम् , न चैतविपरीतमनुमानविषयोऽपीत्यभिप्रेतम् / स्वमसाधारणं