________________ 74 प्रथमः प्रत्यक्षपरिच्छेदः। [ 1.13. ..कः पुनरसौ विषयो ज्ञानस्य यः स्वलक्षणं प्रतिपत्तव्य इत्याहयस्यार्थस्य संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासभेदस्तत् स्वलक्षणम् // 13 // यस्यार्थस्येत्यादि / अर्थशब्दो विषयपर्यायः / यस्य ज्ञानविषयस्य / संनिधानं निकटदेशावस्थानम् / असंनिधानं दूरदेशावस्थानम् / तस्मात् संनिधानादसंनिधानाच्च ज्ञानप्रतिभासस्य ग्राह्याकारस्य भेदः स्फुटत्वास्फुटत्वाभ्याम् / यो हि ज्ञान विषयः संनिहितः सन्२ स्फुटाभासं ज्ञानस्य करोति, असंनिहितस्तु योग्यदेशस्थ एवास्फुटं करोति, तत् स्वलक्षणम् / सर्वाण्येव हि वस्तूनि दूरादस्फुटानि दृश्यन्ते, समीपे स्फुटानि / तान्येव' स्वलक्षणानि // लक्षणं तत्त्वं स्वलक्षणमिति विवृण्वता च धर्मोत्तरेण तदेव दर्शितम् / केवलं न व्यक्तीकृतमतस्तस्य विषयः स्वलक्षणमिति शब्दमात्रश्राविणोऽविदिताचार्याभिप्रायस्याविभावितधर्मोत्तरविवरणार्थस्य यद्यसाधारणं पररूपेणामिश्रं रूपं स्वलक्षणं तदाऽग्नित्वमपि गोत्वादिसामान्यनामिश्रं. स्वलक्षणं प्रसज्येतेति व्याप्ति मन्यमानस्यायं कः पुनरित्यादिप्रश्नः / क इत्यनेन सामान्याकारण विषयं पृच्छति / पुनरित्यनेन विशेषाकारेण। स्वलक्षणशब्दस्यासति बहुब्रीहावजहल्लिङ्गत्वास्वलक्षणमिति / चोदकेन विषयं सम्पृष्ट आचार्यः कस्मादर्थमुत्तरीकरोतीत्याशङ्कयाह-अर्थेति / ज्ञानस्य प्रत्यासन्नत्वाज्ज्ञानविषयो लब्ध इत्यभिप्रेत्य यस्य ज्ञानविषयस्येति विवृणोति। सन्निधानासनिधानशब्दौ निकटदूरावस्थानाौँ व्याचक्षाणो यदन्यैराख्यातं-"असन्निधानं योग्यदेशे सर्वथा वस्तुनोऽभावः” इति तदपाकरोति / अयञ्चास्याभिप्रायो यत्र वस्तु नास्ति तत्र ज्ञानमेव न जायते। न तु तत्प्रतिभासस्य भेदो नानात्वमस्तीति / तस्मादित्यादिना स[32b]न्निधानासन्निधानाभ्यामिति पञ्चमीद्विवचनान्तमेतदिति दर्शयति / स्फुटत्वास्फुटत्वाभ्यामिति अर्थक्रियासामर्थ्यानुगताभ्यामिति द्रष्टव्यम् / "इत्थंभूतलक्षणा चेयं तृतीया / पदार्थं व्याख्याय समुदायार्थ व्याचष्टे / द्वयी चेयं शैली व्याख्यातृणाम् / क्वचित्समुदायार्थं व्याख्याय पश्चात्पदार्थम् विवृण्वते / क्वचित्पदार्थ विवृत्य पश्चात्समुदायार्थ व्याचक्षत इति / हिरवधारणे / योग्यदेशस्थ एवेत्यनेन दूरदेशस्थं निरस्यति / दूरस्थो हि ज्ञानमेव न जनयति किमङ्ग पुनभिन्द्यादित्यभिप्रायः। . स्वलक्षणलक्षणस्याव्यापित्वासम्भवित्वशङकामपाकुर्वन्नाह–सर्वाणीति / सर्वशब्दो व्याप्तिप्रदर्शनार्थः / अनेनाव्यापित्वं निराकृतम् / हिर्यस्मादर्थे / दृश्यन्ते प्रतीयन्ते / अनेनासंभावित्वं निरस्तम् / अतिव्यापित्वमपहस्तयन्नाह तान्येवेति / यान्यमूनि प्रत्यक्षविषयस्तान्येव / नानुमानविषयोऽपीति प्रकरणात् / दूरादस्फुटानि दृश्यन्त इति वदतश्चायमाशयः-दूरे हि वस्तु गृह्यमाणं प्रचुररजोनीहारादिसंसृष्टं गृह्यते। ततोऽस्पष्टं गृह्यते। न तु 'ज्ञानस्य विषयः A. P. H. E.N. स स्फुटा• B. C. D. 3 देशावस्थित A. B.C. P. H. E. N. 4 तान्येव हि स्व.C ५पाणिनि 2.3.21.