________________ 75 1.14] स्वलक्षणस्वरूपम् / कस्मात् पुनःप्रत्यक्षविषय एव स्वलक्षणम् ? तथा हि विकल्पविषयोपि वह्निश्यात्मक' एवावसीयत इत्याह तदेव परमार्थसत् // 14 // तदेव परमार्थसदिति / परमोऽर्थोऽकृत्रिममनारोपितं रूपम् / तेनास्तीति परमार्थसत् / य एवार्थः संनिधानासंनिधानाभ्यां स्फुटमस्फुटं च प्रतिभासं करोति परमार्थसन् स एव / स च प्रत्यक्षस्य विषयो यतः, तस्मात् तदेव स्वलक्षणम् // न गृह्यत एव। तथागृहीतस्यापि वृक्षस्य च्छायाद्यर्थक्रियाकारित्वात् / न चाधिकग्रहणं भ्रम इति / इदं पुनरत्र निरूप्यते / यदि य एवार्थः सन्निधानादसन्निधानाच्च ज्ञानप्रतिभासं स्फटत्वास्फटत्वाभ्यां भिनत्ति स एव स्वलक्षणं तर्हि स्पर्शरसौ स्वलक्षणे न स्याताम् / तो खल असन्निहितौ ज्ञानमेव न. जनयतः / किं पुनर्ज्ञानप्रतिभासं स्फुटत्वास्फुटत्वाभ्यां भेत्स्यतः? किञ्चतस्मिन स्वलक्षणलक्षणे विज्ञानमस्वलक्षणं स्यात् / तस्यास्तां तावदसन्निहितस्यास्फुटज्ञानजनकत्वं सन्निहितस्यापि स्फुटज्ञानजनकत्वं नास्ति। न च तस्य दूरान्तिकवर्तित्वमस्त्यदेशत्वात् / तदीदृशीं महतीमव्यापितामनालोच्येदृशं स्वलक्षणं प्रणयन्नाचार्यः, धर्मोत्तरोऽप्येवं प्रसभं व्याचक्षणः कथं न प्रमाद्यतीति ? न। अभिप्रायापरिज्ञानात् / यदि हीदं लक्षणं यथाश्रुति व्यवतिष्ठेत, स्यादेवैतत् / केवलं सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदकत्वेन यदेकार्थसमवेतमसाधारण्यं व्यक्त्यन्तराननुयायित्वं तदुपलक्षितम् / यतो हेतुबिन्दुः "तत्र तदाद्यमसाधारणविषयमिति" [पृ० 53] / अत एव–“असाधारणविषयं स्वलक्षणविषयमिति" [हेतु० टी० पू० 25] भट्राचंटो व्याचष्टे / अतएवानुमानस्यैतद्विपर्ययेण साधारणं रूपं विषयो दर्शयिष्यते। तेन नाव्याप्तिर्न चान्यो लक्षणदोषः। तस्य विषयः स्वलक्षणमित्यभिहितेऽपि स्वलक्षणशब्दस्यान्यथापि निर्वचनसम्भवात् , नायमभिमतोऽर्थो ज्ञायेत प्रतिपत्तृभिरिति तदभिमतार्थ इत्थमुपलक्षित इति च द्रष्टव्यम // - तस्य विषयः स्वलक्षणमित्यत्र यदि तस्यैव विषयः स्वलक्षणमित्यवधार्यते तदा यत एवकारकरणं ततोऽन्यत्रावधारणमिति स्वलक्षणस्य प्रत्यक्षे नियमात् प्रत्यक्षमन्यविषयमपि स्यात् / अथ स्वलक्षणमेवेत्यवधार्यते / तदाऽपि प्रत्यक्षस्य स्वलक्षणे नियतत्वाद् [33a] अनियतं स्वलक्षणमनुमानस्यापि विषयः स्यादित्युभयावधारणं कार्यम् / तस्यैव विषयः स्वलक्षणमेवेति / एतदसहमानः पूर्वपक्षवाद्याह-कस्मादिति। कस्मादिति सामान्येन कारणं पृच्छति / पुनरिति विशेषतः / यद्वा यस्यार्थस्यत्यत्र तत्स्वलक्षणमिति / तदेव प्रत्यक्षविषयः स्वलक्षणं नानुमानविषय इत्यभिप्रेतम् तदसहमान एवमाह / कस्मात्प्रत्यक्षविषय एवेति ब्रुवतोऽनुमानस्यापि विषयः किं न स्वलक्षणमित्यभिप्रायः। स एव किं न तथेत्याशङक्य पूर्वपक्षवाद्येवोपपत्ति १०क इवाव D 3 स एव च B. H. E. N 2 परमार्थोऽकृ० A. B.C. P. H. E.N प्रत्यक्षविषयो A. B.C. D. P. H. E.N 4