________________ प्रथमः प्रत्यक्षपरिच्छेदः / कस्मात् पुनस्तदेव परमार्थसदित्याह अर्थक्रियासामथ्र्यलक्षणत्वाद्वस्तुनः // 1 // अयंत इत्यर्थः। हेय उपादेयश्च / हेयो हि हातुमिष्यते उपादेयश्चोपादातुम् / अर्थस्य प्रयोजनस्य क्रिया निष्पत्तिः। तस्यां सामर्थ्य शक्तिः। तदेव लक्षणं रूपं यस्य वस्तुनः माह-तथा हीति / विकल्पशब्द: प्रमाणविषयचिन्तनादनुमानविकल्पो द्रष्टव्यः / दृश्यात्मक एव स्वलक्षणात्मक एव। ननु 'यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम्' इत्युक्ते कुतोऽस्य प्रश्नस्यावकाशः ? न हि विकल्पविषयस्य सन्निधानासन्निधानाच्च ज्ञानप्रतिभासभेदोऽस्ति यतोऽस्योत्थानं स्यात् / सत्यम् / केवलमयमस्याशयः-यदेतद् भवद्भिर्लक्षणं स्वलक्षणस्य प्रतीतं तदस्य लक्षणमेव न भवति किन्तु यदेव दृश्यतयाऽध्यवसीयते तदेव स्व लक्षण] मितीदं तस्य लक्षणम्। सति चैवमनुमानविकल्पविषयस्यापि तथात्वमनिवारितमेवेति सूत्थानः प्रश्नः / एतत्प्र-. श्नविसर्जनमाचार्यायं दर्शयन्नाह-तदेवेति / अथ स्यात् यदि ...........त्युच्यमानं शोभेत यावतेदमेव न सिद्धं तत्कृतोऽयं प्रश्नविसर्जनप्रकार इति ? उच्यते। स्वलक्षणमिति स्वमसाधारणं पारमार्थिक: स्वभाव उच्यते / स एव च पारमार्थिकः स्वभाव उच्यते, य एवार्थक्रियाक्षमः। स एव च परमार्थसन्निति युक्तमिदमुत्तरं तदेवेति / परमोऽर्थ इति दर्शयन कर्मधारयं दर्शयति / अकृत्रिममित्यादि परमशब्दस्य व्याख्यानम् / तेनास्तीति सदित्यस्यार्थकथनम् / तेन रूपेण सद् विद्यमानमिति विग्रहः / शत्रन्तश्चायमसिः / "कर्तृकरणे कृता बहुलम्"पाणिनि 2. 1. 32] इति च समासः / परमार्थसदित्यस्यार्थमाख्याय तदेवेत्येतद विवणोति य एवेति। प्रतिभासं ज्ञानस्येति प्रकरणात् / अर्थक्रियासमर्थोऽर्थः। स्वलक्षणं चैवमात्मकमित्यभिप्रायेण य एवार्थः स एवेत्याह। अस्तु तादृशः परमार्थसन् / स तु न तस्य विषयोऽन्यस्यापि वा विषयो भविष्यति / तथा च विवक्षितार्थासिद्धिरित्याह स चेति / चोऽवधारणे प्रत्यक्षस्येत्यत: परो द्रष्टव्यः / तदेवेति प्रत्यक्षविषयत्वेन स्थितं वस्त्वेव न त्वनुमानविषयोऽपीति। अनेन कस्मात्पुनः प्रत्यक्षविषय एव स्वलक्षणमित्येतत्पश्मविसर्जनस्योपसंहारः कृतो वेदितव्यः / / इदानीं स्वलक्षणस्यैव परमार्थसत्त्वमसहमान आह-कस्मादिति / अयमस्याशयःस एव खलु परमार्थसन्नर्थो य एवार्थत्वेनाध्यवसीयते / अनुमानविषयोऽपि च वह्निस्तथाऽध्यवसीयत इति सोऽपि कस्मान्न परमा[33b]र्थसन्निति / अत्र-अर्थेत्यादि यदुत्तरं तद् अर्यत इत्यादिना व्याचष्टे / चस्तुल्यबलत्वं समुच्चिनोति। हेयः कथमर्थ्यत इत्याह-हेय इति / हिर्यस्मात्। यदि हातुमर्थ्यमानोऽर्थो न तहघुपादेयोऽर्थ इत्याह-उपादेय इति। चो हेयापेक्षयोपादेयस्यार्थ्यमानत्वं समुच्चिनोति। अर्थस्य प्रयोजनस्य दाहादेः। एवं च व्याचक्षाणः साध्यो दाहादिरेव मुख्यवृत्त्योपादेयो हेयो वा। 'पडिक्तबाह्य लिखितं न पठ्यते-सं०