________________ 1.16.]. सामान्यलक्षणम् / तद् अर्थक्रियासामर्थ्यलक्षणम् / तस्य भावः, तस्मात् / वस्तुशब्दः परमार्थपर्यायः / तक्यमर्यः-यस्मादर्थक्रियासमर्थ परमार्थसदुच्यते, संनिधानासंनिधानाभ्यां च ज्ञानप्रतिभासस्य भेदकोऽर्थोऽर्थक्रियासमर्थः, तस्मात् स एव परमार्थसन / तत एव हि प्रत्यक्षविषयावर्थक्रिया प्राप्यते न विकल्पविषयात्। अत एव यद्यपि विकल्पविषयो दृश्य इवाबसीयते तथापि न स दृश्य एव, उततोऽर्थक्रियाया अभावात, वश्याच्च भावात्। अतस्तदेव स्वलक्षणं न विकल्पविषयः५ // अन्यत् सामान्यलक्षणम् // 16 // अन्यदित्यादि। एतस्मात् स्वलक्षणाद् यद अन्यत-स्वलक्षणं यो न भवति ज्ञानविषयः-तत् सामान्यलक्षणम्, विकल्पज्ञानेनावसीयमानो ह्यर्थः संनिधानासंनिधानाभ्यां ज्ञानप्रतिभासं न भिनत्ति / तथाहि आरोप्यमाणो वह्निरारोपादस्ति। आरोपाच्च दूरस्थो निकटस्थश्च / तस्य समारोपितस्य संनिधानादसंनिधानाच्च ज्ञानप्रतिभासस्य न भेदः स्फुटत्वेनास्फुटत्वेन वा। ततः स्वलक्षणादन्य उच्यते। सामान्येन लक्षणं सामान्यलक्षणम् / साधारण रूपमित्यर्थः। . समारोप्यमाणं हि रूपं सकलवह्निसाधारणम् / ततः तत् सामान्यलक्षणम् // तमेवोपादातुं हातुं वा तत्साधनस्योपादानं हानं वाऽन्यथा न शक्यत इति तत्साधनभूतो वह्वयादिरुपादेयादिरुपपद्यत इति दर्शयति / तस्यामित्यादि तस्मादित्यन्तं सुबोधम् / परमार्थसतस्तत्त्वे प्रतिपाद्ये किमिति वस्तूनस्ताप्यमाचार्येण दर्शितमित्याशङ्कामपाकुर्वन्नाह-वस्तुशब्द इति। तदयमर्थ इत्यादिर्न विकल्पविषय इत्यन्तो ग्रन्थस्तूक्तार्थोपसंहारः। स च सुज्ञानः // इह प्रस्तुतस्वलक्षणापेक्षमन्यत्वमाचार्यस्याभिप्रेतम् / स्वलक्षणशब्दस्य चान्यशब्दयोगात्पञ्चम्या भवितव्यमित्यभिप्रेत्य एतस्मादित्याह / अन्यत्वमभिव्यनक्ति-स्वलक्षणं योन भवतीति / शशविषाणादिव्यवच्छेदार्थमाह-ज्ञानविषय इति / प्रमाणविषयचिन्ताया: प्रस्तुतत्वाद् विज्ञानविषय इति लब्धम् / असिद्धमस्य ततोऽन्यत्वम् , अस्यापि स्वलक्षणकार्यकारित्वादित्याह-विकल्पेत्यादि / हिर्यस्मादर्थे / प्रतिभासाभेदकत्वं तस्य कुतोऽवसीयते सर्वदा तस्य सन्निहितरूपत्वादसन्निहितरूपत्वादेव वेत्याह-तथा हीति। आरोप्यमाणस्तथा प्रतीयमानः / आरोपात् तथोत्पादलक्षणादध्यवसायाद् अस्ति वह्निरूपेण / आस्तामारोपात् तथाभूतस्तथापि तस्य सन्निधानासन्निधान (ने) कुत इत्याह-आरोपादिति / चो व्यक्तमेतदित्यस्यार्थे / द्वितीयश्चकारो दूरस्थत्वापेक्षया निकटस्थत्वस्यकविषयत्वं समुच्चिनोति / - तस्येत्याधुच्यत इत्यन्तं स्पष्टार्थम् / ' सामान्यात्-टि० ... 3 विकल्पविषयात-टि. 5 विषयम A. B. P. H. E. N. * तस्मात् सामा० B. 2 न दृश्य A. B. P. H. E. N. 4 ०क्रियाभावात्-A. B. P. H. E. N. 6 नास्ति A. P. H. E. N. 8 ततस्तस्मात् सामा० B.