________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1.17. तच्चानुमानस्य प्राचं दर्शयितुमाह सोऽनुमानस्य विषयः // 17 // सोऽनुमानस्य विषयो प्रारूपः / सर्वनाम्नोऽभिधेयवल्लिङ्गपरिग्रहः / सामान्यलक्षणमनुमानस्य विषयं व्याख्यातुकामेनायं स्वलक्षणस्वरूपाख्यानग्रन्थ आवर्तनीयः स्यात् / ततो लाघवार्थ प्रत्यक्षपरिच्छेद एवानुमानविषय उक्तः // सामान्यशब्देन लक्षणशब्दस्य विग्रहमाह-सामान्येनेति / सामान्येन, [न] विशेषेण संतानान्तरसाधारणं स्वरूपम्। साधनं कृतेति समासः / तस्य पदस्यार्थं स्पष्टयतिसाधारणमिति / विकल्पविषयस्याप्यसाधारणत्वादसिद्ध व्यक्त्यन्त रसाधारणत्वमित्याह-समारोप्यमाणमिति / हिर्यस्मात् / समारोप्यमाणं विकल्पेन तथा प्रतीयमानम् / सकलश्चासौ तार्णपार्णादिभेदभिन्नो वह्निश्चेति तथा। तत्साधारणं तथाविधलिङ्गबलेनानग्निव्यावृत्तवस्तुमात्रप्रतिभासनादिति भावः / ननु च तथाविधं सामान्यं विकल्पगोचरोऽवस्तु / तद्विषयत्वेऽनुमानस्य कथं बाह्ये प्रवर्तकत्वं तत्प्रापकत्वञ्च, यतः प्रामाण्यमस्य स्यादिति चेद् / उच्यते। विकल्पाः खल्वेतेनाद्यविद्यावशात्स्वप्रतिभासमनग्निव्यावृत्तमवस्यन्तो बाह्योऽप्यनग्निव्यावृत्त इति तदध्यवसानमेव बाह्यो वह्निरध्यवसित इति मन्यन्ते / अनग्निव्यावृत्ततया बाह्यसदृशवह्नयध्यवसाय एव बाह्यवह्नयध्यवसायः / तयोविवेकाप्रतिपत्तेः / अत एव ते विकल्पा दृश्यविकल्प्यावर्थावेकीकृत्य बाह्ये लोकं प्रवर्त्तयन्ति / दृश्यविकल्प्यकीकरणमपि तेषां तथा प्रवृत्तिहेतुतयोत्पत्तेरेव द्रष्टव्यम् / [34a] बाह्यसम्बद्धसम्बद्धत्वाच्चानुमानविकल्पः संवादकः, अध्यवसेयापेक्षया च प्रमाणम् / तदाह न्यायवादी- "भ्रान्तिरपि सम्बन्धतः प्रमा" इति। एष चार्थः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तरित्यत्राप्यपेक्षणीयः / समासतस्तु तत्रास्माभिः किञ्चिदवादीति / यत एवं तत्तस्मादित्युपसंहारः / तदिति तदारोप्यमाणम् // . . तच्चेत्यादिना सोऽनुमानेत्यस्यावतारं दर्शयति / चोऽवधारणे। ग्राह्य रूपं स्वभावोऽस्येति विग्रहः / एवं व्याचक्षाणो विषयशब्देन ग्राह्यो विषयोऽभिप्रेतोऽत्र प्रमाणव्यापारविषयोऽध्यवसेयः स्वलक्षणस्यैव तदध्यवसेयत्वेन तथा व्यवस्थापनादिति दर्शयति / तस्य तु तत्र स्वरूपेणाप्रतिभासनादग्राह्यत्वम् / प्रकाशमानं च रूपमाश्रित्य ग्राह्यत्वमुच्यत इत्युक्तप्रायम् / अनुमानस्यापि ग्राह्यविषयदर्शनेऽयमभिप्रायो यदीदमनुमानमनर्थमनग्निव्यावृत्तिमात्रं सामान्यरूपं गृह्णाति / तत्र तत्सामान्यरूपं किञ्चिदवभासेत, तदा तत्स्वलक्षणत्वेनावस्यत्स्वलक्षणं प्रवृत्तिविषयीकुर्यात् / तथा कुर्वच्च वस्तुविषयं प्रामाण्यमश्नुवीत नान्यथेति / स -- --- 1 बहुव्रीहि-टि०