________________ प्रमाणफलव्यवस्था। विषयविप्रतिपत्ति निराकृत्य फलविप्रतिपत्ति निराकर्तुमाह तदेव' च प्रत्यक्षं ज्ञानं प्रमाणफलम् // 18 // तदेवेति / यदेवानन्तरमुक्तं प्रत्यक्षं ज्ञानं तदेव प्रमाणस्य फलम् // कथं प्रमाणफलमित्याह अर्थप्रतीतिरूपत्वात् // 16 // अर्थस्य प्रतीतिरवगमः, सैव रूपं यस्य प्रत्यक्षज्ञानस्य तवर्थप्रतीतिरूपम / तस्य भावः, तस्मात् / एतदुक्तं भवति-प्रापकं ज्ञानं प्रमाणम् / प्रापणशक्तिश्च न केवलादर्थाविनाभावित्वाद्भवति। बीजाद्यविनाभाविनोऽप्यकुरादेरप्रापकत्वात् / तस्मात् 'प्राप्यावादुत्पतावप्यस्य ज्ञानस्थाऽस्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारो येन कृतेनार्थः प्रापितो भवति / ___ स एव च प्रमाणफलम, यदनुष्ठानात् प्रापकं भवति ज्ञानम्। उक्तं च पुरस्तात् "प्रवृत्तिविषयप्रदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम" / ___तदेव च प्रत्यक्षम् अर्थप्रतीतिरूपम् 'अर्थप्रदर्शनरूपम् / अतस्तदेव प्रमाणफलम् // इति पुंल्लिङ्गनिर्देशसमर्थनार्थमाह-सर्वेति / इवार्थे वति / तद्वल्लिङ्गस्य परिग्रह [इति षष्ठयन्तेन] विग्रहः / अत्रापि सामान्यलक्षणमेवानुमानस्य विषय इत्यवधारणीयं न त्वनुमानस्यैवेति प्रत्यक्षपृष्ठभाविनोऽपि विकल्पविशेषस्य तविषयत्वादन्यथा लिङ्गनिश्चयायोगादिति / सम्प्रति प्रत्यक्षस्य विषयविप्रतिपत्तिनिराकरणे प्रकृते किमप्रकृतमनुमानस्य विषयविप्रतिपत्तिनिराकरणमाचरितमित्याशङ्कामपाकत्तुं सामान्येत्यादिनोपक्रमते / एतच्चोक्त इत्येतदन्तं सुज्ञानम् // विषयेत्यादि फलमित्येतदन्तं सुबोधम् / फलप्रदर्शने चायं वार्तिककारस्याशयःप्रमाकरणं खलु लोके प्रमाणमुच्यते / ततः करणसाध्या फलरूपा प्रमितिरवश्यदर्शयितव्येति / / ननु यस्मिन् विषये क्रियासाधनं व्याप्रियते .... कथमिति किमन्यत्प्रमाणमिति पूनरिहोपेक्षितमनने? अर्थत्यादि प्रतिवचनं व्याचष्टे अर्थस्येति / एतच्च तस्मादित्यन्तं सुगमम् / . ननु संवादकं ज्ञानं प्रमाणम् / संवादश्च तदुत्पत्तिमात्रात् / तत् किमर्थे प्रतीतिस्तत्फलं मृग्यत इत्याशङक्याह-एतदुक्तं भवतीति / 'तदेव प्रत्य० C. 2 प्रत्यक्षं तदेव A. B. P. H. E. प्रत्यक्षस्य ज्ञान D. 4 तस्मादर्थादुत्प० A. P. H. E. तस्माद् ग्राह्यादर्थादुत्प० N. / अर्थदर्शन A. P. H. E. N. 6 अत्र पडिक्तबाह्यं किञ्चिल्लिखितमस्ति / सूक्ष्मत्वात् न पठ्यते-सं०