________________ प्रथमः प्रत्यक्षपरिच्छेदः / [1.19 अथ प्रापकत्वं प्रापणशक्तियोगात् / सा च शक्तिस्तत उत्पत्तेरेव / तथा च कथं पूर्वपक्षातिक्रम इत्याह-प्रापणशक्तिश्चेति / चो यस्मात् / न केवलादेकाकिनोऽर्थप्रदर्शनविनाकृतात् / विवक्षितेन विना भवतीति विनाभावी ग्रहादित्वाणिनिः। व्यभिचारीत्यर्थः / अर्थेन विना भावीति "तृतीया"[पा० 2.1. 30] इति योगविभागात्समासः / तस्य भावस्तस्मात् / कथं पुनर्न केवलादित्याह-बीजादिति। यत एवं तस्मात्। यद्यपि सन्तान एव प्राप्यो न च तस्मात्तस्योत्पत्तिस्तथापि विषयेऽस्यैकत्वमध्यवसाय प्राप्यादर्थादुत्पत्तावपीत्युक्तम् / प्रापकस्य ज्ञानस्यावश्यकर्त्तव्यः प्रतीतिक्रियारूपः / प्रापितो भवतीति पूर्ववद् योग्यत[34b] योच्यते / भवतु तस्य कर्त्तव्यमन्यत्, तथापि न तत्फलमित्याह–स एवेति / चः स्फुटमेतदित्यस्मिन्नर्थे / भवतु अवश्यकर्त्तव्यः प्रापकव्यापारः / स पुनरज्ञानात्मको भविष्यति / तथा च कथं प्रतीतिः फलमित्याह उक्तमिति / चो यस्मादर्थे / पुरस्तात्पूर्वस्मिन् / केनोक्तमेतदिति चेत् प्रवर्तकत्वमपि प्रवृत्तिविषयोपदर्शकत्वमेवेत्यादिना। आस्तामर्थप्रतीतिरवश्यकतव्या प्रमाणस्य तथापि कथं तदेव प्रत्यक्षज्ञानं फलं तस्यातद्रूपत्वादित्याशडक्य यदर्थप्रतीतिरूपत्वं प्रतिज्ञात तदुपपादयन्नाह तदेवेति / चो यस्मादर्थे / नन्वर्थप्रदर्शनं कर्त्तव्यतया प्रदर्शितम् / तत् कथमर्थप्रतीत्यामेकं तत् प्रदर्श्यत इत्याहअर्थप्रदर्शनरूपमिति / अनयोराभेद इत्यभिप्रायः / यत एवमतोऽस्मात्तदेव प्रत्यक्ष ज्ञानमेव नार्थान्तरमित्यर्थात् / प्रमाणादन्यज्ज्ञानमेव फलं यदि स्यात्, किं स्यात् ? येन यत्नेन गरीयसा प्रमाणादभेदोऽस्य साध्यत इति चेत्। उच्यते। "धीप्रमाणता, प्रवृत्तेस्तत्प्रधानत्वात्" [प्रमाणवा० 1.5. ] इत्यत्राज्ञानात्मनस्तावत्प्रामाण्यमपहस्तितम् / ज्ञानात्मनश्च प्रमाणस्या(स्य) भिन्नेऽपि प्रमितिरूपे फलेऽवश्यमर्थपरिच्छेदात्मताऽभ्युपेतव्या। अन्यथा ज्ञानत्वमेव तस्य न स्यात् / प्रमाजनकत्वेन च ज्ञानत्वे चक्षुरादेरपि ज्ञानत्वं स्यात् / बोधरूपत्वं चास्वसंवेदनतया न नियामकम् / स्वसंवेदनरूपत्वे वा ग्राह्याकारसंवेदनमेवार्थवेदनमिति कथं भिन्नं फलम् ? प्रतिकर्मव्यवस्थाऽनुपपत्तेश्च न निराकारत्वं विज्ञानस्याभ्युपेयम् / ज्ञानमेवार्थस्य प्रकाश इति च सर्वतन्त्रसिद्धोऽयमर्थः। ततो न ज्ञानस्याधिगमरूपतायां विप्रतिपत्तव्यं केनचित् / सत्यां च तदात्मतायां तदेव फलं युज्यते, तावतैव प्रमाणव्यापारपरिसमाप्तेः / अपि च यदि ज्ञानस्य स्वयमर्थरूपपरिच्छेदरूपत्वेनार्थपरिच्छेदकत्वं न स्यात्, किन्तु भिन्नपरिच्छित्तिजनकत्वेन; तदाऽर्थस्य परिच्छित्तरपरोक्षतव व्यवस्थापयितुं न शक्येत / तथाहि तदाद्यं ज्ञानमर्थं परिच्छिनत्त्यर्थमपरोक्षयतीति कोऽर्थोऽर्थविषयां परिच्छित्ति जनयतीति / साऽपि यद्यर्थमपरोक्षयति तदाऽपरां प्रतीति जनयतीति स्यात् / एवमुत्तरत्राप्येवमेवेति परिच्छित्तीनामानन्त्यम्, न त्वर्थस्यापरोक्षतेत्यायातमान्ध्यमशेषस्य जगतः / अथ तासामेका स्वयमर्थपरिच्छेदरूपा अर्थापरोक्षतारूपोपेयते; तदा न भिन्नपरिच्छित्तिजनकत्वं परिच्छेदकत्वम् / किन्तहि ? स्वयमर्थपरिच्छेदात्मत्वमिति आद्यस्यापि तथात्वमनिवारितम् / तथा च कथं प्रमाणाद् व्यतिरिक्तं फलमिति ? / इह न क्रियव करणं लोके तयोर्भेदेनावस्थितेः। या चेयं ज्ञानलक्षणा क्रिया सा चेत्फलं