________________ 1.21..] प्रमाणफलव्यवस्था। यदि तहि ज्ञानं प्रमितिरूपत्वात् प्रमाणफलम्, कि तहिं प्रमाणमित्याह अर्थसारूप्यमस्य प्रमाणम् // 20 // अर्थेन सह यत् सारूप्यं' सादृश्यम् अस्य ज्ञानस्य तत् प्रमाणम् / इह यस्माद्विषया विज्ञानमुदेति तद्विषयसदृशं तद् भवति। यथा नीलादुत्पद्यमानं नीलसदृशम् / तच्च' सारूप्यं सादृश्यम् आकार इत्याभास इत्यपि व्यपदिश्यते // ननु च ज्ञानावव्यतिरिक्तं सादृश्यम् / तथा च सति तदेव ज्ञान प्रमाणं तदेव च प्रमाणफलम् / न चैकं वस्तु साध्यं साधनं चोपपद्यते। तत् कथं सारूप्यं प्रमाणमित्याह तदशादर्थप्रतीतिसिद्धेरिति // 21 // ॥"प्रत्यक्षपरिच्छेदः॥ किमन्यत्प्रमाणं भविष्यति इत्यागूर्य पूर्वपक्षवादी यदीत्याद्याह। यदीति सम्भावयति / तहिशब्दोऽक्षमायाम् / तदेव प्रत्यक्षं ज्ञानमेवमिति न क्षम्यत एतदित्यर्थः। प्रमाणस्य फलं साध्यम् / तहि तस्मिन् काले किम्प्रमाणमिति योज्यम् / अत्रार्थसारूप्यमित्युत्तरं व्याचष्टे-अ[35a]र्थेनेति / अर्थेन विषयण। विषयसारूप्यं च ज्ञानस्य प्रत्यक्षाख्यस्य विषयसमानाकारतयोत्पादः / इहेत्यादिना सारूप्यमेवोपपादयति / एतच्च नीलसदशमित्यन्तं सुबोधम् / केवलमेवं वदतोऽयमाशयः-अनेकप्राग्भावेनोदयमानमपि विज्ञानमर्थस्यैवाकारं बिभर्ति, नान्यस्येत्यनुभवसिद्धमपर्यनुयोज्यम् , सदृशत्वनिश्चयस्य ताद्रूप्येण सततमुदयात् / यदि हि तदन्याकारो विषयः स्यात् तदा तदितरस्याकारधारि विज्ञानं कदाचिज्जनयेत् / यथा शुक्तिः कथञ्चिद्रजताकारज्ञानप्रबन्धोदयेऽपि तद्देशोपसृष्टस्य स्वाकारानुकारि ज्ञानं जनयति / न चाभ्रान्तस्य नीलज्ञानस्य कदाचिदप्यन्याकारत्वमस्ति / तस्मादर्थोऽप्येवमाकार इति निश्चीयते। बाह्यार्थेऽर्थसारूप्यावगमे गतिरियमेवेति / ननु चान्यत्र विषयाभासः प्रमाणमुक्तस्तथाविषयाकार इह त्वर्थसारूप्यं तत्कथं न व्याघात इत्याशङक्याह-तच्चेति / चो यस्मादवधारणे वा। इत्यप्यनेनापि शब्देन / अर्थसारूप्यमेव तेन तेन शब्देनाभिहितम् / ततो न व्याघात इत्यभिप्रायः // किं तहि प्रमाणमिति पृच्छता यच्चेतसि निहितमासीत् तदिदानी ननु चेत्यादिना कण्ठोक्तं करोति। एतच्च प्रमाणमित्येतदन्तं सुबोधम् / 1 ०रूप्यं यत् सादृ० B. D 2 व्याद् ज्ञान A.C. P. H. E. N 3 तच्च सादृ० A. P. E 4 'च' नास्ति A. B.C.P.H. E.N 5 प्रथमः परिच्छेद: B.C