________________ 82 प्रथमः प्रत्यक्षपरिच्छेदः / [ 1. 21. तद्वशादिति / तदिति सारूप्यम, तस्य वशात् सारूप्यसामर्थ्यात् / अर्थस्य प्रतीतिः अवबोधः / तस्याः सिद्धिः / तत्सिद्धेः कारणात् / अर्थस्य प्रतीतिरूपं प्रत्यक्ष विज्ञानं सारूप्यवशात् सिद्धचति प्रतीतं भवतीत्यर्थः। नीलनिर्भासं हि विज्ञानं यतः, तस्मात् नीलस्य प्रतीतिरवसीयते। येभ्यो हि चक्षुरादिभ्यो' विज्ञानमुत्पद्यते न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम् / नीलसदशं तु अनुभूयमानं नीलस्य संवेदनमवस्थाप्यते। न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः, येनकस्मिन् वस्तुनि विरोधः स्यात् / अपि तु व्यवस्थाप्यव्यवस्थापनभावेन / तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते / एतस्मिन् पूर्वपक्षे तद्वशादित्याद्युत्तरमाचार्यायं विवृणोति तदिति / तच्छब्दार्थं वशशब्दार्थं स्फुटयति सारूप्येति। अर्थस्यति नीलपीताद्यात्मना विशिष्टस्येति द्रष्टव्यम् / यतः प्रमितिरियं विशिष्टेनैव कर्मणाऽवच्छिन्ना प्रतीयते। अमुमेवार्थम-अर्थस्येत्यादिना स्पष्टयति। सिद्धिशब्दस्यार्थमभिव्यनक्ति प्रतीतमिति प्रतीतं तन्नीलस्येदं ज्ञानं न पीतस्येत्याद्याकारेण निश्चितं भवतीत्यर्थः / उक्तमर्थं नीलेत्यादिनोपसंहरति / हिरवधारणे / यत एवं तत्तस्मात् नीलस्य प्रतीतिर्नीलस्यैवेदं ज्ञानमित्यवसीयते। ननु जनकेभ्य एवेयं ज्ञानस्य व्यवस्था भविष्यति / ते हि ज्ञानं जनयितुं शक्ताः किमङ्ग निश्चाययितुं न शक्नुयुः ? अतश्च न सारूप्याधीनोऽयं प्रतीतिनियम इत्याशङक्याहयेभ्य इति / हिर्यस्मात् / एवं ब्रुवतोऽयं भाव:-नेन्द्रियालोको नियामकौ। तयोः सर्वज्ञानसाधारणत्वात् / अर्थगतोऽपि विशेषो न नियामकः / ज्ञानादेव हि स प्रत्येतव्यः / तदविशेषे स कथं विशेषव्यवस्थाया अङ्गं भवेदिति। नीलसारूप्येपि यद्ययं न्यायस्तदा कथं तस्यापि नियामकत्वमित्याह-नीलेति / तुरिन्द्रियादिभ्यो जनकेभ्यः सारूप्यं भेदवद् दर्शयति / नील-: सदशमनुभयमानं संवेदनं ज्ञानं नीलस्य नीलस्यैवेति व्यवस्थाप्यते। अयमत्र प्रकरणार्थ:-यदि ज्ञानमर्थसरूपं न स्यात् किन्तु निराकारं बोधकरूपं तदाऽनुभवकरूपतया तदविशिष्टं, सर्वत्र परिच्छेद्यतया कर्मस्थानप्राप्ते नीलपीतादाविति नीलस्यैवेदं संवेदनम्, इदं पीतस्यैवेत्यनुभवसिद्धः प्रतिकर्मविभागो हीयेत / [35b]अर्थगतश्चाकारो ज्ञानाधीनप्रतिपत्तितया ज्ञानस्य विशिष्टरूपतासन्देहेन सन्दिग्धः / न च तेनैव सन्दिग्धरूपेण तदेव सन्दिग्धं रूपं निश्चेतुं शक्यम् / ज्ञानगतश्च विशेषोऽर्थकृतः सारूप्यादन्यो नोपपद्यते / सन्नपि न तावदिदंतयाऽसौ निर्देष्टुं शक्यः। न चानिरूपितेन तदात्मकः कर्मनियमनिश्चयः / यद्पश्च यश्च कर्मनियमनिश्चयो ज्ञानस्य तस्मिन्ननिरूपिते कीदृशी तद्रूपताव्यवस्था ? यथा - 1 ततः सिद्धेः B 2 भ्यो ज्ञानं D.B 3 साधारणत्वाच्चक्षुरादीनाम्-टि. 4 स्थापकभा० A.B.C.D.P.E.H.N.