________________ 1. 21.] प्रमाणफलव्यवस्था। व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य / व्यवस्थाप्यं च नीलसंवेदनरूपम्। व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्येति चेत् / उच्यते / नीलसदशमनुभूय' तद्विज्ञानं यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन, तस्मात् सारूप्यमनुभूतं व्यवस्थापनहेतुः। निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् / तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः। अनीलबोधव्यावृत्त्या च नीलंबोधरूपत्वं व्यवस्थाप्यम् / नीलादिरनिरूपिते क्षणिकत्वे तुपो न निरूप्यत इति / तस्माद् यत इयमधिगतिरव्यवधनात तत्त्वं प्रतिलभते तदेवान्येनाव्यवधीयमानव्यापारं स्वभेदेन भेदकं प्रमाकरणं प्रमाणम् / न पुनरनेनैव व्यवधीयमानव्यापारमिति। तच्चेदृशं सारूप्यमेवेति / एष च वादोऽस्माभिविस्तरेण विशेषाख्यानेऽभिहित इति ततोऽप्यपेक्षितव्य इति / ननु चैवमप्येकस्यैव ज्ञानस्य साध्यत्वं साधनत्वञ्च कथमुपपद्यते ? नहि परशुरेव च्छिदा भवति / ततः प्रमाण-फलयोरभेदो नाभ्युपैतव्य इत्याशङक्याह-न चेत्यादि / चो यस्मादर्थे / अत्रेति प्रमाणफलचिन्तायां विरोधोऽनुपपत्तिः स्यात् / यद्येवं न भवति कथं नामेत्याह-अपि तु किन्तु / व्यवस्थाप्यं विशेषरूपेण नियाम्यम् / व्यवस्थाप्यते विशिष्टे. नात्मना नियम्यतेऽनेनेति व्यवस्थानिमित्तम् व्यवस्थापनमभिप्रेतम् / व्यवस्थापनभावेनेत्यय पाठो वक्ष्यमाणविरोधी। यदा तु व्यवस्थापकभावेनेति पाठो दृश्यते तदा करणे कर्तृभावविवक्षया तथा द्रष्टव्यम् / साध्वसिश्च्छिनत्तीति यथा। तयोर्व्यवस्थाप्यव्यवस्थापनयो: र्भावस्तथाज्ञानाभिधाननिमित्तं रूपं तेन / इत्थंभूतलक्षणा चेयं तृतीया / यत एवं ततस्तस्मादेकस्य वस्तुनः प्रत्यक्षलक्षणस्य ज्ञानस्य वस्तुनः किञ्चिद्रूपं व्यावृत्तिपरिकल्पितं कृतकत्वादिवत्। तत्रेयं बाह्यार्थे प्रमाणादिव्यवस्था। ग्राह्याकारोऽर्थसारूप्याख्य आत्मनः संविदमर्थ संविदमादर्शयन्नर्थे प्रमाणम् / अत एव बाह्योऽर्थः प्रमेयः / वस्तुतः स्वविदपीयमर्थसंबन्धिनी . व्यवसीयमानाऽर्थसंवित्तिः फलमिति / - ननु किमत्र व्यवस्थापननिमित्तम्, किञ्च व्यवस्थाप्यं येनैतत् स्यादित्याह-व्यवस्थापनेति / व्यवस्थापनं व्यवस्थाकारणम् / व्यवस्थायां प्रयोजकव्यापार इति यावत् / तस्य हेतुनिमित्तम् / हिर्यस्मात् / तस्य प्रत्यक्षज्ञानस्य / किन्तर्हि व्यवस्थाप्यमिति ? चो व्यवस्थापनहेतोर्व्यवस्थाप्यं भिनत्ति। नीलस्येदं नान्यस्येत्यनेनाकारेण यन्नीलसंवेदनं तद्रूपम् / - एतदसहमानो व्यवस्थाप्यत्याद्याह। न केवलमेकस्य जन्यजनकभावोऽनुपपन्न इत्यपिना दर्शयति / उच्यत इत्यादिना परिहरति। यतो यस्मान्नीलसदशमनुभूयेति वास्तवं रूपमनदितम् / न तु नीलसदृशमनुभवामीति निश्चयोऽस्ति / अपि तु नीलमेवानुभवामीति नीलस्य प्राहकमवस्थाप्यते। 1 ज्ञानस्य चेत A. C. P. 2 ०ते। सदृशमनुभूयमानं तद्वि०A.B.P.H.E.N. •ते / सदृशमनुभूय तद्वि०C.D.