________________ प्रथमः प्रत्यक्षपरिच्छेदः / [ 1. 21. व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नो द्रष्टव्यः / न तु निर्विकल्पकत्वात् , प्रत्यक्षमेव नीलबोधरूपत्वेनात्मानमवस्थापयितुं शक्नोति / निश्चयप्रत्ययेनाव्यवस्थापित सदपि नीलबोधरूपं विज्ञानमसत्कल्पमेव / तस्मानिश्चयेन नीलबोधरूपं व्यवस्थापितं विज्ञानं नीलबोधात्मना सद् भवति / तस्मादध्यवसायं कुर्वदेव प्रत्यक्ष प्रमाणं भवति / अकृते त्वध्यवसाये नीलबोधरूपत्वेमाव्यवस्थापितं भवति विज्ञानम् / तथा च प्रमाणफलमर्थाधिगम रूपमनिष्पन्नम् / अतः साधकतमत्वाभावात् प्रमाणमेव न स्याज्ज्ञानम् / ननु न तावता ज्ञानमात्मनैवात्मानं तथा[36a] व्यवस्थापयति, अनिश्चयात्मकत्वात् / न च निश्चयोऽप्यात्मानं तथाऽवस्थापयितुं पर्यवाप्नोति, स्वात्मन्यविकल्पकत्वात् / तत्केन तथा व्यवस्थाप्यत इत्याह-निश्चयप्रत्ययेनेति / निश्चयात्मकज्ञानेनोत्तरकालभाविना / तेनाप्यनुरूपेणेति द्रष्टव्यम्। तस्मात्सारूप्यमनुभूतं स्वसंवेदनेन प्रतीतं व्यवस्थापनहेतुर्नीलस्येदं संवेदनम्, न पीतस्येति नियमकरणस्य हेतुनिमित्तम् / इदं च व्यवस्थापनहेतुर्हि सारूप्यं तस्य / ज्ञानस्येत्यस्य समर्थनम् / यदि ज्ञानस्य तस्य सारूप्यमेवं व्यवस्थापनहेतुस्तहि किं कीदृशं च सद् व्यवस्थाप्यमित्याह-निश्चयेति / चोऽवधारणे / तदित्यस्मात्परो द्रष्टव्यः / यस्यव नीलज्ञानस्य सारूप्यं तथोक्तं तदेव ज्ञानं व्यवस्थाप्यं नीलस्यैवेत्याकारेण नियाम्यमित्यर्थः / कीदृशं सत्तथा व्यवस्थाप्यमित्याह-नीलेति / पीतादिसंवेदनव्यावृत्त्या नीलस्येदं संवेदनं ज्ञानमित्यवस्थाप्यमानं निश्चीयमानम् / केनावस्थाप्यमानमित्याकाङक्षायां निश्चयप्रत्ययेनेति योजनीयम्। ननु किं ज्ञानात् सारूप्यं व्यतिरिच्यते येन सारूप्यं तथोक्तम्, ज्ञानं त्वेवमुच्यत इत्याशङक्योपसंहारव्याजेनाह-तस्मादिति / यस्मात् सारूप्यादन्यव्यवस्थापनहेतुर्न घटते, सारूप्यं च ज्ञानादन्यं नोपपद्यते तस्मात्कारणात् / अयं च-तत एकस्य वस्तुनः किञ्चिद्रूपमित्यादेरुपपत्त्या प्रसाधितस्योपसंहारः / अयं प्रकरणार्थः। एकस्यैव ज्ञानस्य व्यावृत्तिकृतं भेदमाश्रित्याह व्यवस्थाप्यव्यवस्थापनभावः। वास्तवं चाभेदमुपादाय प्रमाणफलयोरभेद उच्यते। न च काचित्क्षतिरिति / सम्प्रति निश्चयप्रत्ययेनेति ब्रुवता यादृशो निश्चयो विवक्षितस्तं व्यवस्थापक इत्यादिनोपसंहारव्याजेन स्पष्टयति / व्यवस्थापयतीति व्यवस्थापकः / स च तद्बलोत्पन्नोऽप्यनुरूपो द्रष्टव्यः। अननुरूपविकल्पेन व्यवस्थापितयोरपि व्यवस्थाप्यव्यवस्थापनयोरनुपपत्तेः / यथा मरीचीर्दष्ट्वा तद्बलोत्पन्नेन विकल्पेनावस्थाप्यमानयोर्जलसारूप्यज्ञानयोन तथाभावः / न च निवि० C २०रूपत्वं नात्मा० C ..रूपत्वम् A.C. D. P. H. E. 4 "इतिकरणेनाभ्युपगमस्य स्वरूपं चेत्यनेनाभ्युपगमं दर्शयति"। इति पाठोऽष्टमपंक्तिसम्बद्धत्वेन पंक्तिबाह्यभागे लिखितः प्रती दृश्यते किन्तु तस्य कुत्र निवेश इति न ज्ञायते-सं०