________________ 1. 21.] प्रमाणफलव्यवस्था।. . जनितेन त्वध्यवसायेन सारूप्यवशान्नीलबोधरूपे ज्ञाने 'व्यवस्थाप्यमाने सारूप्यं व्यवस्थापनहेतुत्वात् प्रमाणं सिद्धं भवति / यद्येवमध्यवसायसहितमेव प्रत्यक्ष प्रमाणं स्यात् न केवलमिति चेत् / नैतदेवम् / यस्मात प्रत्यक्षबलोत्पनेनाध्यवसायेन दृश्यत्वेनार्थोऽवसीयते नोत्प्रेक्षितत्वेन / दर्शनञ्चार्थसाक्षात्करणास्यं प्रत्यक्षव्यापारः। उत्प्रेक्षणं तु विकल्पव्यापारः। तथाहि परोक्षमर्थ येनाभिप्रायेण निश्चयप्रत्ययस्य व्यवस्थापकत्वमुक्तं तमभिव्यनक्ति -न विति। तुनिश्चयाप्रत्यक्ष भेदवद् दर्शयति / अवस्थापनाऽशक्तौ हेतुमाह-निर्विकल्पकत्वादिति / ननु परमार्थतो यदि तज्ज्ञानं नीलमेव रूपतया सरूपं तदा तथानिश्चयो भवतु वा मा वा। स्वयमेवाविकल्पकत्वेऽपि तेन रूपेण सद्व्यवहारगोचरो भविष्यतीत्याशङक्याहनिश्चयप्रत्ययेनेत्यादि। निश्चयप्रत्ययेनानुरूपेण / अननुरूपेणाक्षणिकविकल्पनावस्थापितस्यापि क्षणिकबोधस्य सद्व्यवहारस्य योग्यत्वात्। तेनाव्यवस्थापितमसत्कल्पमसत्तुल्यम् स्वविषये व्यवहारयितुमशक्तत्वा[36b]त् / गच्छत्तृणज्ञानादिवत् / तस्मादित्यादिनाऽमुमर्थमुपसंहरति / यस्मानिश्चयेन तथाऽव्यवस्थापितमसता सदृशं भवति तस्मात् / नीलबोधात्मना नीलस्यायं बोध इत्याकारेण सद् भवति सद्व्यवहारयोग्यं भवति / यस्मात्स्वसामर्योत्पन्नेनानुरूपेण निश्चयप्रत्ययेन व्यवस्थापितं तथा भवति नान्यथा तस्मात्कारणादध्यवसायमनुरूपं निश्चयं कुर्वत्। एवकारेणाऽकरणावस्थायाः प्रमाणव्यवहारं निरस्यति। अमुमेवार्थं व्यतिरेकमुखेन द्रढयन्नाह-अकृते त्विति। तुः करणावस्थां भेदवतीमाह। भवतु तथाऽव्यवस्थापितं किमत इत्याह-तथा चेति। तस्मिश्च तेनात्मनाऽव्यवस्थापनप्रकारे सति / तदनिष्पत्तावपि किं न प्रमाणमित्याह-अत इति / अतोऽधिगतिक्रियायाः फलभताया अनिष्पत्तेः। साधकतमत्वाभाव इति वाक्यभेदः। तस्मात्साधकतमत्वाभावात् / अर्थाधिगमलक्षणप्रमाणसिद्धौ हि साधकतमं प्रमाणमुच्यते। सा चेन्न निष्पन्ना तहि किमपेक्ष्य साधकतमत्वमात्मसात्कुर्यात्, येन तज्ज्ञानं प्रामाण्यमश्नुवीतेति समुदायार्थः / * ननु अवसायाभावे तावदियं गतिस्तद्भावेऽपि यद्येषैव गतिस्तदा न प्रत्यक्षं नाम प्रमाणमित्याशङक्यान्वयमुखेनेदानीमाह-जनितेनेति / तुरजननावस्थाया जननावस्थां भेदवतीं दर्शयति / तेन तथा व्यवस्थाप्यमाने व्यवस्थापकत्वे च निमित्तमाह-सारूप्यवशादिति / सिद्धं प्रतीतं भवति / यदि प्रत्यक्षं केवलमसहायं प्रवर्तयितुमनीशानं नियमेन निश्चयमपेक्षते तहि तत्सहितमेव प्रमाणं प्रसज्यतेत्यभिप्रायवान् प्राह-यद्येवमिति / एवमनन्तरोक्तं यद्यभ्युपगम्यते तदैवं स्यात् / चेदिति पराभ्युपगमं दर्शयति। नेति प्रतिषेधति। एवं सत्येतन्न भवति। हेतुमाह 2 दृष्टत्वेना० A.B.C.D. P. H. E.N. 'ज्ञानेऽवस्था० A. P. H. E. N. ३०क्षणं विक० A. C.D.