________________ 86 प्रथमः प्रत्यक्षपरिच्छेदः। [ 1.21. विकल्पयन्त उत्प्रेक्षामहे न तु पश्याम इति उत्प्रेक्षात्मकं विकल्पव्यापारमनुभवादध्यवस्यन्ति / तस्मात् स्वव्यापारं तिरस्कृत्य प्रत्यक्षव्यापारमादर्शयति यत्रार्थे प्रत्यक्षपूर्वकोऽध्यवसायस्तत्र प्रत्यक्ष केवलमेव प्रमाणमिति / / // आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रत्यक्षपरिच्छेदः प्रथमः // यस्मादिति / दृश्यत्वेन दर्शनविशिष्टत्वेन / प्रकारान्तरं निरस्यति नेति / उत्प्रेक्षितत्वं साक्षात्करणाभिमानशून्यज्ञातृत्वम् / ननु विकल्पव्यापारो दर्शनम् / ततः स्वव्यापारविशिष्टार्थाध्यवसाने तस्य का . क्षतिरित्याशङक्याह-दर्शनञ्चेति / चो यस्मादर्थे / यद्येवं कस्तहि विकल्पव्यापार इत्याहउत्प्रेक्षणमिति / एतदेव तथाहीत्यादिनाऽवस्यन्तीत्यनेन (त्यन्तेन) ग्रन्थेन समर्थयति / भवत्वेवं तथापि कथं प्रत्यक्षस्य केवलस्य प्रामाण्यं न तु विकल्पस्यापीत्याशङक्योपसंहारापदेशेनाह-तस्मादिति / एतच्च सुबोधम् / एवमभिधाने चायमस्याशयो बोद्धव्यः / स्यात्खलु विकल्पस्यापि प्रामाण्यं यद्यसौ स्वव्यापारयुक्त एव प्रत्यक्षस्य साहाय्यं भजते / न चायं तथा व्याप्रियते। स्वीकृतप्रत्यक्षव्यापारस्यैव . प्रवृत्तिदर्शनात् / स च दर्शनलक्षणो व्यापारः प्रत्यक्षेणैव सम्पादित इति कथमयमपि पिष्टपेषणकारी प्रामाण्यं प्रतिलभेत / अथ प्रत्यक्षं तावत्स्वप्रामाण्यव्यव[37a]हाराय तमपेक्षते। ततः सोऽपि प्रमाणमेवेति मतिस्तहि पिता पितृव्यवहारायावश्यं पुत्रमपेक्षत इति पुत्रोऽपि पिता प्रसज्यत इति कृतमताकिकवचनविचारणयेति सर्वमवदातम् // // पण्डितदुर्वेकविरचितधर्मोत्तरनिबन्धस्य धर्मोत्तरप्रदीपसंज्ञितस्य प्रथमः परिच्छेदः / / 1 भवादवस्यन्ति A.C. P. H. E. N. 2 प्रमाणमिति न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः // मंगलमस्तु // A प्रमाणमिति आचार्यधर्मोत्तरविरचितायां न्यायबिन्दुटीकायां प्रथमः परिच्छेदः समाप्तः।C