________________ द्वितीयः स्वार्थानुमानपरिच्छेदः / एवं प्रत्यक्ष व्याख्यायानुमानं व्याख्यातुकाम' आह अनुमानं द्विधा // 1 // अनुमानं द्विधा द्विप्रकारम् / अथानुमानलक्षणे वक्तव्ये किमकस्मात् प्रकारभेदः कथ्यते ? उच्यते / परार्थानुमानं शब्दात्मकम् , स्वार्थानुमानं तु ज्ञानात्मकम् / तयोरत्यन्तभेदात् नैकं लक्षणमस्ति। ततस्तयोः प्रतिनियतं लक्षणमाख्यातुं प्रकारभेदः कथ्यते / प्रकारभेदो हि व्यक्तिभेदः / व्यक्तिभेदे च कथिते प्रतिव्यक्तिनियतं लक्षणं शक्यते वक्तुम् / नान्यथा / ततो लक्षणनिर्देशाङ्गमेव प्रकारभेदकथनम् / अशक्यतां च प्रकारभेदकथनमन्तरेण लक्षणनिर्देशस्य ज्ञात्वा प्राक् प्रकारभेदः कथ्यत इति // प्रत्यक्षानुमानभेदेन द्वैधं प्रमाणमुद्दिष्टम् / तत्र व्याख्यातं प्रत्यक्षम्। यथोद्देशमधुना:नुमानं व्याख्यातुमवसरप्राप्तमित्यभिसंधायाह-एवमिति / एवमनन्तरोक्तेन चतुर्विधविप्रतिपत्तिनिराकरणप्रकारेण / प्रकारे धाप्रत्ययोऽयमिति दर्शयन्नाह-द्विप्रकारमिति / / ननु चानुमानस्य लक्षणं वक्तुकामेनास्य लक्षणमेव वक्तव्यम् / . तत्किमिदमप्रस्तुताभिधानमास्थीयत इति पूर्वपक्षम्-अथेत्यादिनोत्थापपति। अथशब्दोऽत्र प्रश्ने। अकस्मादिति निपातो निनिमित्तवचनः / उच्यत इत्यादिना परिहरति। तयोर्ज्ञानाभिधानात्मनोः। एकमिति साधारणम् / यथा चतुर्णामपि प्रत्यक्षाणां ज्ञानरूपत्वादेकं कल्पनापोढत्वादिसाधारणं लक्षणं सम्भवति, तथा यदि स्यात् प्रत्यक्षवल्लक्षणमेव प्रथममुक्तं स्यादिति भावः / प्रतिनियतं प्रातिस्विकम् / प्रकारस्य भेदो नानात्वम् / ननु प्रतिव्यक्तिनियतं लक्षणं व्यक्तिविशेषोपदर्शनं विना न शक्यते दर्शयितुमिति व्यक्तिभेद एव कथयितव्यः / तत्कि प्रकारभेदः कथ्यत इत्याह-प्रकारेति / हिर्यस्मात / यदि तस्मिन दर्शितेऽपि प्रतिनियतलक्षणाख्यानं न शक्यं तर्हि किं तेन कथितेनेत्याह-व्यक्तीति / चो यस्मादर्थे / प्रतिशब्दोऽत्र नियतार्थवृत्तिः, तेन प्रति विशिष्टा व्यक्तिस्तत्र नियतमिति. ' व्याख्यातुमाह-A 3 ज्ञात्वा प्रथमं प्रका० C. D. 2 निर्देशार्थमेव A.C..